लघुशिवस्तुतिः अथ लघुशिवस्तुतिः ललितचन्द्रनिभाननसुस्मितं शिवपदं शिवदं स्मरतां शिवम् | विशदकोटितटित्प्रभया युतं शिवजया शिवया शिवया युतम् ||१|| नटननाट्यनटं नटगायकं जनमुदं जलजायतलोचनम् | भुजगभूषणभूषितविग्रहं प्रणम हे जनते जनवल्लभम् ||३|| श्रुतिशतप्रभया प्रभयायुतं हरिपदाब्जभवं शिरसा धृतम् | शिव शिवेति शिवेति शिवेति वै भव भवेति भवेति भवेति वा ||४|| मृड मृडेति मृडेति मृडेति वै भजति यः सततं प्रणतामियात् ||५|| || इति श्रीव्यासतीर्थयतिकृता लघुशिवस्तुतिः ||