अथ लघुशिवस्तुतिः
ललितचन्द्रनिभाननसुस्मितं
शिवपदं शिवदं स्मरतां शिवम् |


विशदकोटितटित्प्रभया युतं
शिवजया शिवया शिवया युतम् ||१||


नटननाट्यनटं नटगायकं
जनमुदं जलजायतलोचनम् |


भुजगभूषणभूषितविग्रहं
प्रणम हे जनते जनवल्लभम् ||३||


श्रुतिशतप्रभया प्रभयायुतं
हरिपदाब्जभवं शिरसा धृतम् |


शिव शिवेति शिवेति शिवेति वै
भव भवेति भवेति भवेति वा ||४||


मृड मृडेति मृडेति मृडेति वै
भजति यः सततं प्रणतामियात् ||५||


|| इति श्रीव्यासतीर्थयतिकृता लघुशिवस्तुतिः ||