श्रीकृष्णाष्टकम् अथ श्रीकृष्णाष्टकम् व्रजमनः शरणं यदुनंदनं रजतपीठपुरस्थितमादरात् | भजकलोकततिं स दयानिधिः निजपदं नयतीति सदागमाः || १|| अजमुखामरबृंदसुवंदितं भुजगशीर्षविहारिपदांबुजम् | यज यथार्थमनीषिहृदालयं त्यज विनश्वरदुर्विषयानलम् || २|| विजयमित्रममंदधियाऽर्चितं व्रजपतिं भुजदंडधृताचलम् | सुजनतालदानविचक्षणं द्विजवराननमाश्रय यादवम् || ३|| सृजति पाति हरत्यथ विष्टपं ष्वजत यो ह्युरसा कमलालयम् | रुजमपास्य सुखं स्वमसौ दिशेत् विजनदेश उपास्व मधुद्विषम् || ४|| गजरदाहतमल्लममर्त्यदो- व्यजनवीजितमक्षिजितांबुजम् | अजसि चेच्छरणं मुरवैरिणं न जनिनाशपुरोगमदूषणम् || ५|| अजरनाथमहामदवारणं भुजनिवेशननाशितकेशिनम् | स्वजनुरीशवरासुरसंहरं व्रज रजस्तमादिनिवृत्तये || ६|| द्विजसुतप्रदमंग पयश्चर- ध्वजजनिं समराहतशात्रवम् | अजनगेशतुरंगममानत- व्रजसमीहितदं भज यादवम् || ७|| रजकसामजकंसमुखासनं स्वजननीजनकामितसौख्यदम् | रजनिनाथकुलाभरणं धृत- स्रजमनंतगुणं भज हे मनः || ८|| ऋतमनीषहृदब्जसुरालयः श्रितसमीहितदो मधुशात्रवः | कृतमिदं यतिना पठतेऽष्टकं सुतमुखेष्टततिं ददते हरिः || ९|| || इति श्रीसत्यसंधयति कृतं श्रीकृष्णाष्टकम् ||