अथ श्रीकृष्णाष्टकम्
व्रजमनः शरणं यदुनंदनं
रजतपीठपुरस्थितमादरात् |


भजकलोकततिं स दयानिधिः
निजपदं नयतीति सदागमाः || १||


अजमुखामरबृंदसुवंदितं
भुजगशीर्षविहारिपदांबुजम् |


यज यथार्थमनीषिहृदालयं
त्यज विनश्वरदुर्विषयानलम् || २||


विजयमित्रममंदधियाऽर्चितं
व्रजपतिं भुजदंडधृताचलम् |


सुजनतालदानविचक्षणं
द्विजवराननमाश्रय यादवम् || ३||


सृजति पाति हरत्यथ विष्टपं
ष्वजत यो ह्युरसा कमलालयम् |


रुजमपास्य सुखं स्वमसौ दिशेत्
विजनदेश उपास्व मधुद्विषम् || ४||


गजरदाहतमल्लममर्त्यदो-
व्यजनवीजितमक्षिजितांबुजम् |


अजसि चेच्छरणं मुरवैरिणं
न जनिनाशपुरोगमदूषणम् || ५||


अजरनाथमहामदवारणं
भुजनिवेशननाशितकेशिनम् |


स्वजनुरीशवरासुरसंहरं
व्रज रजस्तमादिनिवृत्तये || ६||


द्विजसुतप्रदमंग पयश्चर-
ध्वजजनिं समराहतशात्रवम् |


अजनगेशतुरंगममानत-
व्रजसमीहितदं भज यादवम् || ७||


रजकसामजकंसमुखासनं
स्वजननीजनकामितसौख्यदम् |


रजनिनाथकुलाभरणं धृत-
स्रजमनंतगुणं भज हे मनः || ८||


ऋतमनीषहृदब्जसुरालयः
श्रितसमीहितदो मधुशात्रवः |


कृतमिदं यतिना पठतेऽष्टकं
सुतमुखेष्टततिं ददते हरिः || ९||


|| इति श्रीसत्यसंधयति कृतं श्रीकृष्णाष्टकम् ||