कृष्णाष्टकम् ॥ अथ कृष्णाष्टकम् ॥ पालयाच्युत पालयाजित पालय कमलालय । लीलया धृतभूधरांबुरुहोदर स्वजनोदर ॥ मध्वमानसपद्मभानुसमं स्मरप्रतिमं स्मर । स्निग्धनिर्मलशीतकांतिलसन्मुखं करुणोन्मुखम् । हृद्यकंबुसमानकंधरमक्षयं दुरितक्षयं स्निग्धसंस्तुतरूप्यपीठकृतालयं हरिमालयम् ॥१॥ अंगदादिसुशोभिपाणियुगेन संक्षुभितैनसं तुंगमाल्यमणींद्रहारसरोरसं खलनीरसम् । मंगलप्रदमंथदामविराजितं भजताजितं तं गृणे वररूप्यपीठकृतालयं हरिमालयम् ॥२॥ पीनरम्यतनूदरं भज हे मन: शुभ हे मन: स्वानुभावनिदर्शनाय दिशंतमर्थिसुशंतमम् । आनतोऽस्मि निजार्जुनप्रियसाधकं खलबाधकं हीनतोज्झितरूप्यपीठकृतालयं हरिमालयम् ॥३॥ हैमकिंकिणिमालिकारशनांचितं तमवंचितं कम्रकांचनवस्त्रचित्रकटिं घनप्रभया घनम् । नम्रनागकरोपमोरुमनामयं शुभधीमयं नौम्यहं वररूप्यपीठकृतालयं हरिमालयम् ॥४॥ वृत्तजानुमनोज्ञजंघममोहदं परमोहदं रत्नकल्पनखत्विषा हृतहृत्तमस्ततिमुत्तमम् । प्रत्यहं रचितार्चनं रमया स्वयाऽऽगतया स्वयं चित्त चिंतय रूप्यपीठकृतालयं हरिमालयम् ॥५॥ चारुपादसरोजयुग्मरुचाऽमरोच्चयचामरो- दारमूर्धजभानुमंडलरंजकं कलिभंजकम् । वीरतोचितभूषणं वरनूपुरं स्वतनूपुरं धारयात्मनि रूप्यपीठकृतालयं हरिमालयम् ॥६॥ शुष्कवादिमनोऽतिदूरतरागमोत्सवदागमं सत्कवींद्रवचोविलासमहोदयं महितोदयम् । लक्षयामि यतीश्वरै: कृतपूजनं गुणभाजनं धिक्कृतोपमरूप्यपीठकृतालयं हरिमालयम् ॥७॥ नारदप्रियमाविशांबुरुहेक्षणं निजरक्षणं तारकोपमचारुदीपचयांतरे गतचिंत रे । धीर मानस पूर्णचंद्रसमानमच्युतमानम द्वारकोपमरूप्यपीठकृतालयं हरिमालयम् ॥८॥ रूप्यपीठकृतालयस्य हरे: प्रियं दुरिताप्रियं तत्पदार्चकवादिराजयतीरितं गुणपूरितम् । गोप्यमष्टकमेतदुच्चमुदे ममास्त्विह निर्मम प्राप्य शुद्धफलाय तत्र सुकोमलं हृतधीमलम् ॥९॥ पालयाच्युत पालयाजित पालय कमलालय । लीलया धृतभूधरांबुरुहोदर स्वजनोदर ॥ ॥ इति श्रीवादिराजतीर्थविरचितं कृष्णाष्टकम् ॥