॥ अथ कृष्णाष्टकम् ॥


पालयाच्युत पालयाजित पालय कमलालय ।


लीलया धृतभूधरांबुरुहोदर स्वजनोदर ॥


मध्वमानसपद्मभानुसमं स्मरप्रतिमं स्मर ।
स्निग्धनिर्मलशीतकांतिलसन्मुखं करुणोन्मुखम् ।
हृद्यकंबुसमानकंधरमक्षयं दुरितक्षयं
स्निग्धसंस्तुतरूप्यपीठकृतालयं हरिमालयम् ॥१॥


अंगदादिसुशोभिपाणियुगेन संक्षुभितैनसं
तुंगमाल्यमणींद्रहारसरोरसं खलनीरसम् ।
मंगलप्रदमंथदामविराजितं भजताजितं
तं गृणे वररूप्यपीठकृतालयं हरिमालयम् ॥२॥


पीनरम्यतनूदरं भज हे मन: शुभ हे मन:
स्वानुभावनिदर्शनाय दिशंतमर्थिसुशंतमम् ।
आनतोऽस्मि निजार्जुनप्रियसाधकं खलबाधकं
हीनतोज्झितरूप्यपीठकृतालयं हरिमालयम् ॥३॥


हैमकिंकिणिमालिकारशनांचितं तमवंचितं
कम्रकांचनवस्त्रचित्रकटिं घनप्रभया घनम् ।
नम्रनागकरोपमोरुमनामयं शुभधीमयं
नौम्यहं वररूप्यपीठकृतालयं हरिमालयम् ॥४॥


वृत्तजानुमनोज्ञजंघममोहदं परमोहदं
रत्नकल्पनखत्विषा हृतहृत्तमस्ततिमुत्तमम् ।
प्रत्यहं रचितार्चनं रमया स्वयाऽऽगतया स्वयं
चित्त चिंतय रूप्यपीठकृतालयं हरिमालयम् ॥५॥


चारुपादसरोजयुग्मरुचाऽमरोच्चयचामरो-
दारमूर्धजभानुमंडलरंजकं कलिभंजकम् ।
वीरतोचितभूषणं वरनूपुरं स्वतनूपुरं
धारयात्मनि रूप्यपीठकृतालयं हरिमालयम् ॥६॥


शुष्कवादिमनोऽतिदूरतरागमोत्सवदागमं
सत्कवींद्रवचोविलासमहोदयं महितोदयम् ।
लक्षयामि यतीश्वरै: कृतपूजनं गुणभाजनं
धिक्कृतोपमरूप्यपीठकृतालयं हरिमालयम् ॥७॥


नारदप्रियमाविशांबुरुहेक्षणं निजरक्षणं
तारकोपमचारुदीपचयांतरे गतचिंत रे ।
धीर मानस पूर्णचंद्रसमानमच्युतमानम
द्वारकोपमरूप्यपीठकृतालयं हरिमालयम् ॥८॥


रूप्यपीठकृतालयस्य हरे: प्रियं दुरिताप्रियं


तत्पदार्चकवादिराजयतीरितं गुणपूरितम् ।


गोप्यमष्टकमेतदुच्चमुदे ममास्त्विह निर्मम