कार्तवीर्यार्जुनस्तोत्रम् अथ कार्तवीर्यार्जुनस्तोत्रम् कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् | तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते || १|| कार्तवीर्यः खलद्वेषि कृतवीर्य सुतो बलि | सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः | रक्तगंधो रक्तमाल्यो राजा स्मर्तुरभीष्टदः || २|| द्वादैशैतानि नामानि कार्तवीर्यस्य यः पठेत् | संपदस्तत्र जायंते जनस्तत्र वशं गतः | आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् || ३|| सहस्रबाहुसशरं महितं सचापं रक्तांबरं रक्तकिरीटकुंडलम् | चोरादिदुष्टभयनाशनमिष्टदं तं ध्यायेन् महाबलविजृंभितकार्तवीर्यम् || ४|| यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् | यन्नामानि महावीर- श्चार्जुनः कृतवीर्यवान् || ५|| हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् | वांछितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि || ६|| || इति कार्तवीर्यार्जुनस्तोत्रम् ||