अथ कार्तवीर्यार्जुनस्तोत्रम्
कार्तवीर्यार्जुनो नाम
राजा बाहुसहस्रवान् |


तस्य स्मरणमात्रेण
गतं नष्टं च लभ्यते || १||


कार्तवीर्यः खलद्वेषि
कृतवीर्य सुतो बलि |


सहस्रबाहुः शत्रुघ्नो
रक्तवासा धनुर्धरः |


रक्तगंधो रक्तमाल्यो
राजा स्मर्तुरभीष्टदः || २||


द्वादैशैतानि नामानि
कार्तवीर्यस्य यः पठेत् |


संपदस्तत्र जायंते
जनस्तत्र वशं गतः |


आनयत्याशु दूरस्थं
क्षेमलाभयुतं प्रियम् || ३||


सहस्रबाहुसशरं महितं सचापं
रक्तांबरं रक्तकिरीटकुंडलम् |


चोरादिदुष्टभयनाशनमिष्टदं तं
ध्यायेन् महाबलविजृंभितकार्तवीर्यम् || ४||


यस्य स्मरणमात्रेण
सर्वदुःखक्षयो भवेत् |


यन्नामानि महावीर-
श्चार्जुनः कृतवीर्यवान् || ५||


हैहयाधिपतेः स्तोत्रं
सहस्रावृत्तिकारितम् |


वांछितार्थप्रदं नृणां
स्वराज्यं सुकृतं यदि || ६||


|| इति कार्तवीर्यार्जुनस्तोत्रम् ||