कंदुकस्तुतिः ॥ अथ कंदुकस्तुतिः ॥ अंबरगंगाचुंबितपादः पदतलविदलितगुरुतरशकटः । कालियनागक्ष्वेलनिहंता सरसिजनवदलविकसितनयनः ॥१॥ कालघनालीकर्बुरकायः शरशतशकलितरिपुशतनिवहः । संततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः ॥२॥ ॥ इति श्रीमदनांदतीर्थभगवत्पादाचार्यविरचिता कंदुकस्तुतिः ॥