॥ अथ कंदुकस्तुतिः ॥


अंबरगंगाचुंबितपादः पदतलविदलितगुरुतरशकटः ।
कालियनागक्ष्वेलनिहंता सरसिजनवदलविकसितनयनः ॥१॥


कालघनालीकर्बुरकायः शरशतशकलितरिपुशतनिवहः ।
संततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः ॥२॥


॥ इति श्रीमदनांदतीर्थभगवत्पादाचार्यविरचिता कंदुकस्तुतिः ॥