।। अथ जितंते स्तोत्रे पंचमोऽध्यायः ।।


जितं ते पुंडरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥१॥


नमस्ते वासुदेवाय शांतानंदचिदात्मने ।
अजिताय नमस्तुभ्यं षागुण्यनिधये नमः ॥२॥


अध्यक्षाय स्वतंत्राय निरपेक्षाय शाश्वते ।
महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम ॥३॥


सहस्रशिरसे तुभ्यं सहस्रचरणाय ते ।
सहस्रबाहवे तुभ्यं सहस्रनयनाय ते ॥४॥


प्रधानपुरुषेशाय नमस्ते पुरुषोत्तम ।
अमूर्तये नमस्तुभ्यमेकमूर्ताय ते नमः ॥५॥


अनेकमूर्तये तुभ्यमक्षराय च ते नमः ।
व्यापिने वेदवेद्याय नमस्ते परमात्मने ॥६॥


चिन्मात्ररूपिणे तुभ्यं नमस्तुर्यादिमूर्तये ।
अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः ॥७॥


वरिष्ठाय वसिष्ठाय कनिष्ठाय नमो नमः ।
नेदिष्ठाय यविष्ठाय क्षेपिष्ठाय च ते नमः ॥८॥


पंचात्मने नमस्तुभ्यं सर्वांतर्यामिणे नमः ।
कलाषोडशरूपाय सृष्टिस्थित्यंतहेतवे ॥९॥


नमस्ते गुणरूपाय गुणरूपानुवर्तिने ।
व्यस्ताय च समस्ताय समस्तव्यस्तरूपिणे ॥१०॥


लोकयात्राप्रसिद्ध्यर्थं सृष्टब्रह्मादिरूपिणे ।
नमस्तुभ्यं नृसिंहादिमूर्तिभेदाय विष्णवे ॥११॥


आदिमध्यांतशून्याय तत्त्वज्ञाय नमो नमः ।
प्रणवप्रतिपाद्याय नमः प्रणवरूपिणे ॥१२॥


विपाकैः कर्मभिः क्लेशैरस्पृष्टवपुषे नमः ।
नमो ब्रह्मण्यदेवाय तेजसां निधये नमः ॥१३॥


नित्यासाधारणानेकलोकरक्षापरिच्छदे ।
सच्चिदानंदरूपाय वरेण्याय नमो नमः ॥१४॥


यजमानाय यज्ञाय यष्टव्याय नमो नमः ।
इज्याफलात्मने तुभ्यं नमः स्वाध्यायशालिने ॥१५॥


नमः परमहंसाय नमः सत्त्वगुणाय ते ।
स्थिताय परमे व्योम्नि भूयो भूयो नमो नमः ॥१६॥


हरिर्देहभृतामात्मा परप्रकृतिरीश्वरः ।
त्वत्पादमूलं शरणं यतः क्षेमो नृणामिह ॥१७॥


संसारसागरे घोरे विषयावर्तसंकुले ।
अपारे दुस्तरेऽगाधे पतितं कर्मभिः स्वकैः ॥१८॥


अनाथमगतिं भीरुं दयया परया हरे ।
मामुद्धर दयासिंधो सिंधोरस्मात् सुदुस्तरात् ॥१९॥


मंत्रहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् ।
तत् क्षंतव्यं प्रपन्नानामपराधसहो ह्यसि ॥२०॥


अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।
अगतिं शरणागतं हरे कृपया केवलमात्मसात् कुरु ॥२१॥


जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते ।
त्वं च स्वामी गुरुर्माता पिता च मम बांधवः ॥२२॥


नाहं हि त्वा प्रजानामि त्वां भजाम्येव केवलम् ।
बुद्ध्वैवं मम गोविंद मुक्त्युपायेन मां हरे ॥२३॥


त्वमेव यच्छ मे श्रेयो नियमेऽपि दमेऽपि च ।
बुद्धियोगं च मे देहि येन त्वामुपयाम्यहम् ॥२४॥


प्रियो मे त्वां विना नान्यो नेदं नेदमितीति च ।
बुद्धिं नीतिं च मे देहि येन त्वामुपयाम्यहम् ॥२५॥


इति विज्ञाप्य देवेशं वैश्वदेवं स्वधामनि ।
कुर्यात् पंचमहायज्ञानपि गृह्योक्तवर्त्मना ॥२६॥


इत्यादिसमये तस्य प्रोवाच कमलासनः ।
वेदानां सारमुद्धृत्य सर्वागमसमृद्धये ॥२७॥


॥ इति जितंतेस्तोत्रे पंचमोऽध्यायः ॥


॥ इति श्रीपंचरात्रागमे महोपनिषदि ब्रह्मतंत्रे श्रीमदष्टाक्षरकल्पे हंस-ब्रह्मसंवादे जितंतेस्तोत्रम् ॥