।। अथ जितंते स्तोत्रे चतुर्थोऽध्यायः ।।
जितं ते पुंडरीकाक्ष पूर्णषाड्गुण्यविग्रह ।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥१॥
देवानां दानवानां च सामान्यमधिदैवतम् ।
सर्वदा चरणद्वंद्वं व्रजामि शरणं तव ॥२॥
एकस्त्वमस्य लोकस्य स्रष्टा संहारकस्तथा ।
अध्यक्षश्चानुमंता च गुणमायासमावृतः ॥३॥
संसारसागरं घोरमनंतक्लेशभाजनम् ।
त्वामेव शरणं प्राप्य निस्तरंति मनीषिणः ॥४॥
न ते रूपं न चाकारो नायुधानि न चास्पदम् ।
तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे ॥५॥
नैव किंचित्परोक्षं ते प्रत्यक्षोऽसि न कस्यचित् ।
नैव किंचिदसिद्धं ते न च सिद्धोऽसि कर्हिचित् ॥६॥
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगानां परमां सिद्धिं परमं ते पदं विदुः ॥७॥
अहं भीतोऽस्मि देवेश संसारेऽस्मिन् भयावहे ।
पाहि मां पुंडरीकाक्ष न जाने शरणं परम् ॥८॥
कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत ।
शरीरे च गतौ चास्य वर्तते मे महद्भयम् ॥९॥
त्वत्पादकमलादन्यन्न मे जन्मांतरेष्वपि ।
निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् ॥१०॥
विज्ञानं यदिदं प्राप्तं यदिदं ज्ञानमूर्जितम् ।
जन्मांतरेऽपि देवेश मा भूदस्य परिक्षयः ॥११॥
दुर्गतावपि जातायां त्वद्गतो मे मनोरथः ।
यदि नाशं न विंदेत तावताऽस्मि कृती सदा ॥१२॥
न कामकलुषं चित्तं मम ते पादयोः स्थितम् ।
कामये वैष्णवत्वं च सर्वजन्मसु केवलम् ॥१३॥
अज्ञानाद्यदि वा ज्ञानादशुभं यत्कृतं मया ।
क्षंतुमर्हसि देवेश दास्येन च गृहाण माम् ॥१४॥
सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत ।
किंकरोऽस्मि हृषीकेश भूयो भूयोऽस्मि किंकरः ॥१५॥
इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने ।
किंकरोऽस्मीति चात्मानं देवाय विनिवेदयेत् ॥१६॥
मादृशो न परः पापी त्वादृशो न दयापरः ।
इति मत्वा जगन्नाथ रक्ष मां गरुडध्वज ॥१७॥
यच्चापराधं कृतवानज्ञानात् पुरुषोत्तम ।
अज्ञस्य मम देवेश तत्सर्वं क्षंतुमर्हसि ॥१८॥
अहंकारार्थकामेषु प्रीतिरद्यैव नश्यतु ।
त्वां प्रपन्नस्य मे सैव वर्धतां श्रीपते त्वयि ॥१९॥
क्वाहमत्यंतदुर्बुद्धिः क्व नु चात्महितेक्षणम् ।
यद्धितं मम देवेश तदाज्ञापय माधव ॥२०॥
सोऽहं ते देव देवेश नार्चनादौ स्तुतौ न च ।
सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥२१॥
उपचारापदेशेन क्रियंतेऽहर्निशं मया ।
अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम ॥२२॥
न जाने कर्म यत्किंचिन्नापि लौकिकवैदिके ।
न निषेधविधी विष्णो तव दासोऽस्मि केवलम् ॥२३॥
स त्वं प्रसीद भगवन् कुरु मय्यनाथे
विष्णो कृपां परमकारुणिकः किल त्वम् ।
संसारसागरनिमग्नमनंतदीनम्
उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥२४॥
करचरणकृतं वा कायजं कर्मजं वा
श्रवणमननजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्रीपते श्रीमुकुंद ॥२५॥
कर्मणा मनसा वाचा या चेष्टा मम नित्यशः ।
केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ॥२६॥
॥ इति जितंतेस्तोत्रे चतुर्थोऽध्यायः ॥