जितंते स्तोत्रे द्वितीयोऽध्यायः ।। अथ जितंते स्तोत्रे द्वितीयोऽध्यायः ।। जितं ते पुंडरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषिकेश महापुरुषपूर्वज ॥१॥ विज्ञापनमिदं देव शृणुष्व पुरुषोत्तम । नरनारायणाभ्यां च श्वेतद्वीपनिवासिभिः ॥२॥ नारदाद्यैर्मुनिगणैः सनकाद्यैश्च योगिभिः । ब्रह्मेशाद्यैः सुरगणैः पंचकालपरायणैः ॥३॥ पूज्यसे पुंडरीकाक्ष दिव्यैर्मंत्रैर्महात्मभिः । पाषंडधर्मसंकीणे भगवद्भक्तिवर्जिते ॥४॥ कलौ जातोऽस्मि देवेश सर्वधर्मबहिष्कृते । कथं त्वामसमा(दा)चारः पापप्रसवभूरुहः ॥५॥ अर्चयामि दयासिंधो पाहि मां शरणागतम् । तापत्रयदवाग्नौ मां दह्यमानं सदा विभो ॥६॥ पाहि मां पुंडरीकाक्ष केवलं कृपया तव । जन्ममृत्युजराव्याधिदुःखसंतप्तदेहिनम् ॥७॥ पालयाशु दृशा देव तव कारुण्यगर्भया । इंद्रियाणि मया जेतुमशक्यं पुरुषोत्तम ॥८॥ शरीरं मम देवेश व्याधिभिः परिपीडितम् । मनो मे पुंडरीकाक्ष विषयानेव धावति ॥९॥ वाणी मम हृषिकेश मिथ्यापारुष्यदूषिता । एवं साधनहीनोऽहं किं करिष्यामि केशव रक्ष मां कृपया कृष्ण भवाब्धौ पतितं सदा ॥१०॥ अपराधसहस्राणां सहस्रमयुतं तथा । अर्बुदं चाप्यसंख्येयं करुणाब्धे क्षमस्व मे ॥११॥ यं चापराधं कृतवान् अज्ञानात् पुरुषोत्तम । अज्ञस्य मम देवेश तत् सर्वं क्षंतुमर्हसि ॥१२॥ अज्ञत्वादल्पशक्तित्वादालस्याद्दुष्टभावनात् । कृतापराधं कृपणं क्षंतुमर्हसि मां विभो ॥१३॥ अपराधसहस्राणि क्रियंतेऽहर्निशं मया । तानि सर्वाणि मे देव क्षमस्व मधुसूदन ॥१४॥ यज्जन्मनः प्रभृति मोहवशं गतेन नानापराधशतमाचरितं मया ते । अंतर्बहिश्च सकलं तव पश्यतो हि क्षंतुं त्वमर्हसि हरे करुणावशेन ॥१५॥ कर्मणा मनसा वाचा या चेष्टा मम नित्यशः । केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ॥१६॥ ॥ इति जितंते स्तोत्रे द्वितीयोऽध्यायः ॥