।। अथ जितंते स्तोत्रे द्वितीयोऽध्यायः ।।
जितं ते पुंडरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषिकेश महापुरुषपूर्वज ॥१॥
विज्ञापनमिदं देव शृणुष्व पुरुषोत्तम ।
नरनारायणाभ्यां च श्वेतद्वीपनिवासिभिः ॥२॥
नारदाद्यैर्मुनिगणैः सनकाद्यैश्च योगिभिः ।
ब्रह्मेशाद्यैः सुरगणैः पंचकालपरायणैः ॥३॥
पूज्यसे पुंडरीकाक्ष दिव्यैर्मंत्रैर्महात्मभिः ।
पाषंडधर्मसंकीणे भगवद्भक्तिवर्जिते ॥४॥
कलौ जातोऽस्मि देवेश सर्वधर्मबहिष्कृते ।
कथं त्वामसमा(दा)चारः पापप्रसवभूरुहः ॥५॥
अर्चयामि दयासिंधो पाहि मां शरणागतम् ।
तापत्रयदवाग्नौ मां दह्यमानं सदा विभो ॥६॥
पाहि मां पुंडरीकाक्ष केवलं कृपया तव ।
जन्ममृत्युजराव्याधिदुःखसंतप्तदेहिनम् ॥७॥
पालयाशु दृशा देव तव कारुण्यगर्भया ।
इंद्रियाणि मया जेतुमशक्यं पुरुषोत्तम ॥८॥
शरीरं मम देवेश व्याधिभिः परिपीडितम् ।
मनो मे पुंडरीकाक्ष विषयानेव धावति ॥९॥
वाणी मम हृषिकेश मिथ्यापारुष्यदूषिता ।
एवं साधनहीनोऽहं किं करिष्यामि केशव
रक्ष मां कृपया कृष्ण भवाब्धौ पतितं सदा ॥१०॥
अपराधसहस्राणां सहस्रमयुतं तथा ।
अर्बुदं चाप्यसंख्येयं करुणाब्धे क्षमस्व मे ॥११॥
यं चापराधं कृतवान् अज्ञानात् पुरुषोत्तम ।
अज्ञस्य मम देवेश तत् सर्वं क्षंतुमर्हसि ॥१२॥
अज्ञत्वादल्पशक्तित्वादालस्याद्दुष्टभावनात् ।
कृतापराधं कृपणं क्षंतुमर्हसि मां विभो ॥१३॥
अपराधसहस्राणि क्रियंतेऽहर्निशं मया ।
तानि सर्वाणि मे देव क्षमस्व मधुसूदन ॥१४॥
यज्जन्मनः प्रभृति मोहवशं गतेन
नानापराधशतमाचरितं मया ते ।
अंतर्बहिश्च सकलं तव पश्यतो हि
क्षंतुं त्वमर्हसि हरे करुणावशेन ॥१५॥
कर्मणा मनसा वाचा या चेष्टा मम नित्यशः ।
केशवाराधने सा स्याज्जन्मजन्मांतरेष्वपि ॥१६॥
॥ इति जितंते स्तोत्रे द्वितीयोऽध्यायः ॥