।। अथ जितंते स्तोत्रे प्रथमोऽध्यायः ।।


ब्रह्मोवाच
जितं ते पुंडरीकाक्ष पूर्णषागुण्यविग्रह ।
परानंद परब्रह्मन् नमस्ते चतुरात्मने ॥१॥


नमस्ते पीतवसन नमः कटकहारिणे ।
नमो नीलालकाबद्ध वेणीसुंदरपुंगव ॥२॥


स्फुरद्वलयकेयूरनूपुरांगदभूषणैः ।
शोभनैर्भूषिताकार कल्याणगुणराशये ॥३॥


करुणापूर्णहृदय शंखचक्रगदाधर ।
अमृतानंदपूर्णाभ्यां लोचनाभ्यां विलोकय ॥४॥


कृशं कृतघ्नं दुष्कर्मकारिणं पापभाजनम् ।
अपराधसहस्राणां आकरं करुणाकर ॥५॥


कृपया मां केवलया गृहाण मथुराधिप ।
विषयार्णवमग्नं मामुद्धर्तुं त्वमिहार्हसि ॥६॥


पिता माता सुहृद्बंधुर्भ्राता पुत्रस्त्वमेव मे ।
विद्या धनं च कामश्च नान्यत् किंचित् त्वया विना ॥७॥


यत्र कुत्र स्थले वासो येषु केषु भवोऽस्तु मे ।
तव दास्यैकभावे स्यात् सदा सर्वत्र मे रतिः ॥८॥


मनसा कर्मणा वाचा शिरसा वा कथंचन ।
त्वां विना नान्यमुद्दिश्य करिष्ये किंचिदप्यहम् ॥९॥


पाहि पाहि जगन्नाथ कृपया भक्तवत्सल ।
अनाथोऽहमधन्योऽहमकृतार्थो ह्यकिंचनः ॥१०॥


नृशंसः पापकृत् क्रूरो वंचको निष्ठुरः सदा ।
भवार्णवे निमग्नं मामनन्यकरुणोदधे ॥११॥


करुणापूर्णदृष्टिभ्यां दीनं मामवलोकय ।
त्वदग्रे पतितं त्यक्तुं तावकं नार्हसि प्रभो ॥१२॥


मया कृतानि पापानि विविधानि पुनः पुनः ।
त्वत्पादपंकजं प्राप्तुं नान्यत् त्वत्करुणां विना ॥१३॥


साधनानि प्रसिद्धानि यागादीन्यब्जलोचन ।
त्वदाज्ञया प्रवृत्तानि त्वामुद्दिश्य कृतानि वै ॥१४॥


भक्त्यैकलभ्यः पुरुषोत्तमो हि
जगत्प्रसूतिस्थितिनाशहेतुः ।
अकिंचनं नान्यगतिं शरण्य
गृहाण मां क्लेशिनमंबुजाक्ष ॥


धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन ।
त्वत्पादपंकजस्याधो जीवितं मम दीयताम् ॥१६॥


कामये तावकत्वेन परिचर्यासु वर्तनम् ।
नित्यं किंकरभावेन परिगृह्णीष्व मां विभो ॥१७॥


लोकं वैकुंठनामानं दिव्यं षागुण्यसंयुतम् ।
अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥१८॥


नित्यं सिद्धैः समाकीर्णं त्वन्मयैः पांचकालिकैः ।
सभाप्रासादसंयुक्तं वनैश्चोपवनैः शुभैः ॥१९॥


वापीकूपतटाकैश्च वृक्षषंडैश्च मंडितम् ।
अप्राकृतं सुरैर्वंद्यमयुताकसमप्रभम् ॥२०॥


प्रकृष्टसत्त्वराशिं त्वां कदा द्रक्ष्यामि चक्षुषा ।
क्रीडंतं रमया सार्धं लीलाभूमिषु केशवम् ॥२१॥


मेघश्यामं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा ।
उन्नसं चारुदशनं बिंबोष्ठं शोभनाननम् ॥२२॥


विशालवक्षसं श्रीशं कंबुग्रीवं जगद्गुरुम् ।
आजानुबाहुपरिघमुन्नतांसं मधुद्विषम् ॥२३॥


तनूदरं निम्ननाभिमापीनजघनं हरिम् ।
करभोरुं श्रियःकांतं कदा द्रक्ष्यामि चक्षुषा ॥२४॥


शंखचक्रगदापद्मैरंकितं पादपंकजम् ।
शरच्चंद्रशताक्रांतनखराजिविराजितम् ॥२५॥


सुरासुरैर्वंद्यमानमृषिभिर्वंदितं सदा ।
मूर्धानं मामकं देव तावकं मंडयिष्यति ॥२६॥


कदा गंभीरया वाचा श्रिया युक्तो जगत्पतिः ।
चामरव्यग्रहस्तं मामेवं कुर्विति वक्ष्यति ॥२७॥


कदाऽहं राजराजेन गणनाथेन चोदितः ।
चरेयं भगवत्पादपरिचर्यासु वर्तनम् ॥२८॥


शांताय सुविशुद्धाय तेजसे परमात्मने ।
नमः सर्वगुणातीतषागुण्यायादिवेधसे ॥२९॥


सत्यज्ञानानंतगुणब्रह्मणे चतुरात्मने ।
नमो भगवते तुभ्यं वासुदेवामितद्युते ॥३०॥


चतुःपंचनवव्यूहदशद्वादशमूर्तये ।
नमोऽनंताय विश्वाय विश्वातीताय चक्रिणे ॥३१॥


नमस्ते पंचकालज्ञ पंचकालपरायण ।
पंचकालैकमनसां त्वमेव गतिरव्ययः ॥३२॥


स्वमहिम्नि स्थितं देवं निरनिष्टं निरंजनम् ।
अप्रमेयमजं विष्णुं शरणं त्वां गतोऽस्म्यहम् ॥३३॥


वागतीतं परं शांतं कंजनाभं सुरेश्वरम् ।
तुरीयाद्यतिरक्तं त्वां कौस्तुभोद्भासिवक्षसम् ॥३४॥


विश्वरूपं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा ।
मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन ॥३५॥


इच्छाम्यहं महाभाग कारुण्यं तव सुव्रत ।
सकलावरणातीत किंकरोऽस्मि तवानघ ॥३६॥


पुनः पुनः किंकरोऽस्मि तवाहं पुरुषोत्तम ।
आसनाद्यनुयागांतमर्चनं यन्मया कृतम् ॥३७॥


भोगहीनं क्रियाहीनं मंत्रहीनमभक्तिकम् ।
तत्सर्वं क्षम्यतां देव दीनं मामत्मसात् कुरु ॥३८॥


इति स्तोत्रेण देवेशं स्तुत्वा मधुनिघातिनम् ।
यागावसानसमये देवदेवस्य चक्रिणः ।
नित्यं किंकरभावेन स्वात्मानं विनिवेदयेत् ॥३९॥


॥ इति जितंतेस्तोत्रे प्रथमोऽध्यायः ॥