हितोपदेशः अथ हितोपदेशः स्मर कृष्णं भज हरिं नम विष्णुं श्रयाच्युतम् | त्यज कामं जहि क्रोधं जहि मोहं भवालयम् || १|| श्रुणु शौरिकथाः पुण्याः पश्य श्रीपतिविग्रहम् | जिघ्र श्रीपादतुलसिः स्पृश वैकुंठवल्लभम् || २|| भुंक्ष्व केशवनैवेद्यं तिष्ठ माधवमंदिरे | जप नारायणमनुं पठ तन्नाममंगलम् || ३|| पाहि प्रपन्नजनतां ब्रूहि तथ्यं हितं नृणाम् | देहि कांक्षितमर्थिभ्यो याहि सज्जनसंगतिम् || ४|| कुरु भूतदयां नित्यं चर धर्ममहर्निशम् | जानीहि नित्यमात्मानमवेह्यन्यद्धि नश्वरम् || ५|| पंचश्लोकमिमां शश्वत् पठ धारय चिंतय | एतावान्सर्ववेदार्थः समासेन निरूपितः | ६|| नास्ति नारायण समं न भूतं न भविष्यति | एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् || ७|| अक्षोभ्यतीर्थमुनिना निजशिष्यहितैषिणा | वेदसारमिदं प्रोक्तं प्रीत्यैमाधवमध्वयोः || ८|| || इति अक्षोभ्यतीर्थ विरचितः हितोपदेशः ||