अथ हितोपदेशः
स्मर कृष्णं भज हरिं नम विष्णुं श्रयाच्युतम् |


त्यज कामं जहि क्रोधं जहि मोहं भवालयम् || १||


श्रुणु शौरिकथाः पुण्याः पश्य श्रीपतिविग्रहम् |


जिघ्र श्रीपादतुलसिः स्पृश वैकुंठवल्लभम् || २||


भुंक्ष्व केशवनैवेद्यं तिष्ठ माधवमंदिरे |


जप नारायणमनुं पठ तन्नाममंगलम् || ३||


पाहि प्रपन्नजनतां ब्रूहि तथ्यं हितं नृणाम् |


देहि कांक्षितमर्थिभ्यो याहि सज्जनसंगतिम् || ४||


कुरु भूतदयां नित्यं चर धर्ममहर्निशम् |


जानीहि नित्यमात्मानमवेह्यन्यद्धि नश्वरम् || ५||


पंचश्लोकमिमां शश्वत् पठ धारय चिंतय |


एतावान्सर्ववेदार्थः समासेन निरूपितः | ६||


नास्ति नारायण समं न भूतं न भविष्यति |


एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् || ७||


अक्षोभ्यतीर्थमुनिना निजशिष्यहितैषिणा |


वेदसारमिदं प्रोक्तं प्रीत्यैमाधवमध्वयोः || ८||


|| इति अक्षोभ्यतीर्थ विरचितः हितोपदेशः ||