हरिभक्ताष्टकम् अथ हरिभक्ताष्टकम् श्रीमध्वशुद्धराद्धांतभूमयो धृतनेमयः | महांतो हरिसंतोषकराः क्लेशहरा मम || १|| रूक्षाघक्षालने दक्षा मोक्षदाधोक्षजेक्षणाः | रक्ष्येलक्ष्याविपक्षाक्षहर्यक्षाः परपक्षकाः || २|| सुदयानिधयो मोक्षावधयो विजिताधयः | हरिसन्निधयो ज्ञानेषुधयोंऽबुधयो गुणैः || ३|| प्रभंजनाप्तचित्पुंजाक्ष्यंजना जनरंजनाः | निरंजनाः कंजनाभव्यंजना भवभंजनाः || ४|| नृत्यंतः स्वांतवृत्यंतः संतो हंतोज्छिता हरिम् | भजंतोऽन्यत्त्यजंतस्ते यतयो गतयो मम || ५|| सदा शास्त्र विचारस्थान् सदाऽशास्त्रजये पटून् | सदा शास्त्र विचारस्थान् सदा शास्त्रपयोऽत्स्यतः || ६|| अलं पटादिविषयैरित्यलंपटमानसान् | अनलंकुर्वतः स्वांगमनलं कुर्वतो द्विषाम् || ७|| भ्रमतो भ्रमतो देशं नमतो नमतोदयम् | गुरून् विद्यागुरून् सर्वान् स्मरध्वं स्मरतो हरिम् || ८|| हरिभक्ताष्टकं दृष्टादृष्टसर्वेष्टपुष्टिदम् | यतिना वादिराजेन रचितं सर्वदा पठेत् || ८|| || इति श्रीवादिराजयतिविरचितं हरिभक्ताष्टकम् ||