अथ हरिभक्ताष्टकम्
श्रीमध्वशुद्धराद्धांतभूमयो धृतनेमयः |


महांतो हरिसंतोषकराः क्लेशहरा मम || १||


रूक्षाघक्षालने दक्षा मोक्षदाधोक्षजेक्षणाः |


रक्ष्येलक्ष्याविपक्षाक्षहर्यक्षाः परपक्षकाः || २||


सुदयानिधयो मोक्षावधयो विजिताधयः |


हरिसन्निधयो ज्ञानेषुधयोंऽबुधयो गुणैः || ३||


प्रभंजनाप्तचित्पुंजाक्ष्यंजना जनरंजनाः |


निरंजनाः कंजनाभव्यंजना भवभंजनाः || ४||


नृत्यंतः स्वांतवृत्यंतः संतो हंतोज्छिता हरिम् |


भजंतोऽन्यत्त्यजंतस्ते यतयो गतयो मम || ५||


सदा शास्त्र विचारस्थान् सदाऽशास्त्रजये पटून् |


सदा शास्त्र विचारस्थान् सदा शास्त्रपयोऽत्स्यतः || ६||


अलं पटादिविषयैरित्यलंपटमानसान् |


अनलंकुर्वतः स्वांगमनलं कुर्वतो द्विषाम् || ७||


भ्रमतो भ्रमतो देशं नमतो नमतोदयम् |


गुरून् विद्यागुरून् सर्वान् स्मरध्वं स्मरतो हरिम् || ८||


हरिभक्ताष्टकं दृष्टादृष्टसर्वेष्टपुष्टिदम् |


यतिना वादिराजेन रचितं सर्वदा पठेत् || ८||


|| इति श्रीवादिराजयतिविरचितं हरिभक्ताष्टकम् ||