।। अथ गोसावित्रीस्तोत्रम् ।।


नारायणं नमस्कृत्य देवीं त्रिभुवनेश्वरीम् ।
गोसावित्रीं प्रवक्ष्यामि व्यासेनोक्तां सनातनीम् ॥१॥


यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
गवां निश्वसितं वेदाः सषडंगपदक्रमाः ॥२॥


शिक्षा व्याकरणं छंदो निरुक्तं ज्यौतिषं तथा ।
एतासामग्रशृंगेषु इंद्रविष्णू स्वयं स्थितौ ॥३॥


शिरो ब्रह्मा गुरुः स्कंधे ललाटे गोवृषध्वजः ।
कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥४॥


दंतेषु मरुतो देवा जिह्वायां च सरस्वती ।
कंठे च वरुणो देवो हृदये हव्यवाहनः ॥५॥


उदरे पृथिवी देवी सशैलवनकानना ।
ककुदि द्यौः सनक्षत्रा पृष्ठे वैवस्वतो यमः ॥६॥


ऊर्वोस्तु वसवो देवा वायुर्जंघे समाश्रितः ।
आदित्यस्त्वाश्रितो वाले साध्याः सर्वांगसंधिषु ॥७॥


अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् ।
धृतिःपुष्टिर्महालक्ष्मीर्गोमये संस्थिता सदा ॥८॥


नासिकायां च श्रीदेवी ज्येष्ठा वसति मानवी ।
चत्वारः सागराः पूर्णा गवां ह्येव पयोधरे ॥९॥


खुरमध्येषु गंधर्वाः खुराग्रे पन्नगाः श्रिताः ।
खुराणां पश्चिमे भागे ह्यप्सराणां गणाः स्मृताः ॥१०॥


श्रोणीतटेषु पितरो रोमलांगूलमाश्रिताः ।
ऋषयो रोमकूपेषु चर्मण्येव प्रजापतिः ॥११॥


सर्वा विष्णुमया गावः तासां गोप्ता हि केशवः ।
हुंकारे चतुरो वेदाः हुंशब्दे च प्रजापतिः ॥१२॥


गवां दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन सप्तद्विपा वसुंधरा ॥१३॥


कामदोग्ध्री स्वयं कामदोग्धा सन्निहिता मता ।
गोग्रासस्य विशेषोऽस्ति हस्तसंपूर्णमात्रतः ॥१४॥


शतब्राह्मणभुक्तेन सममाहुर्युधिष्ठिर ।
य इदं पठते नित्यं शृणुयाद्वा समाहितः ॥१५॥


ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमाप्नुयात् ।
वैश्यश्च पशुमान् स स्यात् शूद्रश्च सुखमाप्नुयात् ॥१६॥


गर्भिणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात् ।
सायं प्रातस्तु पठतां शांतिस्वस्त्ययनं महत् ॥१७॥


अहोरात्रकृतैः पापैस्तत्क्षणात् परिमुच्यते ।
फलं तु गोसहस्रस्येत्युक्तं ब्रह्मणा पुरा ॥१८॥


॥ इति श्रीमन्महाभारते भीष्मयुधिष्ठिरसंवादे गोसावित्रीस्तोत्रम् ॥