गरुडद्वादशनामस्तोत्रम् अथ गरुडद्वादशनामस्तोत्रम् सुपर्णं वैनतेयं च नागारिं नागभूषणं | विषांतकं शशांकं च आदित्यं विश्वतोमुखं || १|| गरुत्मंतं खगपतिं स्तार्क्ष्यं कश्यपनंदनं | द्वादैशॆೖतानि नामानि गरुडस्य महात्मनः || २|| यः पठेत् प्रातरुत्थाय सर्वत्र विजयी भवेत् | विषं नाक्रमते तस्य न तं हिंसति पन्नगः || ३|| संग्रामे व्यवहारे च कार्यसिद्धिं च मानवः | बंधनान्मुक्तिमाप्नोति यात्रायां सिद्धिमाप्नुयात् | कार्यसिद्धिं कुरुष्वार्य विहगाय नमोऽस्तु ते || ४|| || इति गरुडद्वादशनामस्तोत्रम् ||