अथ गरुडद्वादशनामस्तोत्रम्
सुपर्णं वैनतेयं च
नागारिं नागभूषणं |


विषांतकं शशांकं च
आदित्यं विश्वतोमुखं || १||


गरुत्मंतं खगपतिं
स्तार्क्ष्यं कश्यपनंदनं |


द्वादैशॆೖतानि नामानि
गरुडस्य महात्मनः || २||


यः पठेत् प्रातरुत्थाय
सर्वत्र विजयी भवेत् |


विषं नाक्रमते तस्य
न तं हिंसति पन्नगः || ३||


संग्रामे व्यवहारे च
कार्यसिद्धिं च मानवः |


बंधनान्मुक्तिमाप्नोति
यात्रायां सिद्धिमाप्नुयात् |


कार्यसिद्धिं कुरुष्वार्य
विहगाय नमोऽस्तु ते || ४||


|| इति गरुडद्वादशनामस्तोत्रम् ||