॥ अथ द्वादशस्तोत्रे अष्टमोऽध्यायः ॥


वंदिताशेषवंध्योरुवृंदारकं
चंदनाचर्चितोदारपीनांसकम् ।
इंदिराचंचलापांगनीराजितं
मंदरोद्धारिवृत्तोद्बुजाभोगिनम् ॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥१॥


सृष्टिसंहारलीलाविलासाततं
पुष्टषागुण्यसद्विग्रहोल्लासिनम् ।
दुष्टनिश्शेषसंहारकर्मोद्यतं
हृष्टपुष्टानुशिष्टप्रजासंश्रयम् ॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥२॥


उन्नतप्रार्थिताशेषसंसाधकं
सन्नतालौकिकानंददश्रीपदम् ।
भिन्नकर्माशयप्राणिसंप्रेरकं
तन्न किं नेति विद्वत्सु मीमांसितम्॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥३॥


विप्रमुख्यैः सदा वेदवादोन्मुखैः
सुप्रतापैः क्षितीशेश्वरैश्चार्चितम्।
अप्रतर्क्योरुसंविद्गुणं निर्मलं
सप्रकाशाजरानंदरूपं परम् ॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥४॥


अत्ययो यस्य केनापि न क्वापि हि
प्रत्ययो यद्गुणेषूत्तमानां परः।
सत्यसंकल्प एको वरेण्यो वशी
मत्यनूनैः सदा वेदवादोदितः ॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥५॥


पश्यतां दुःखसंताननिर्मूलनं
दृश्यतां दृश्यतामित्यजेशार्चितम् ।
नश्यतां दूरगं सर्वदाऽप्यात्मगं
वश्यतां स्वेच्छया सज्जनेष्वागतम् ॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥६॥


अग्रजं यः ससर्जाजमग्र्याकृतिं
विग्रहो यस्य सर्वे गुणा एव हि ।
उग्र आद्योऽपि यस्यात्मजाग्र्यात्मजः
सद्गृहीतः सदा यः परं दैवतम् ॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥७॥


अच्युतो यो गुणैर्नित्यमेवाखिलैः
प्रच्युतोऽशेषदोषैः सदा पूर्तितः ।
उच्यते सर्ववेदोरुवादैरजः
स्वर्चितो ब्रह्मरुद्रेंद्रपूर्वैः सदा ॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥८॥


धार्यते येन विश्वं सदाजादिकं
वार्यतेऽशेषदुःखं निजध्यायिनाम् ।
पार्यते सर्वमन्यैर्न यत्पार्यते
कार्यते चाखिलं सर्वभूतैः सदा ॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥९॥


सर्वपापानि यत्संस्मृतेः संक्षयं
सर्वदा यांति भक्त्या विशुद्धात्मनाम् ।
शर्वगुर्वादिगीर्वाणसंस्थानदः
कुर्वते कर्म यत्प्रीतये सज्जनाः ॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥१०॥


अक्षयं कर्म यस्मिन् परे स्वर्पितं
प्रक्षयं यांति दुःखानि यन्नामतः ।
अक्षरो योऽजरः सर्वदैवामृतः
कुक्षिगं यस्य विश्वं सदाऽजादिकम् ॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥११॥


नंदितीर्थोरुसन्नामिनो नंदिनः
संदधानाः सदानंददेवे मतिम् ।
मंदहासारुणापांगदत्तोन्नतिं
नंदिताशेषदेवादिवृंदं सदा ॥
प्रीणयामो वासुदेवं
देवतामंडलाखंडमंडनम् ॥१२॥


॥ इति द्वादशस्तोत्रे अष्टमोऽध्यायः ॥