द्वादशस्तोत्रम् अष्टमोऽध्यायः ॥ अथ द्वादशस्तोत्रे अष्टमोऽध्यायः ॥ वंदिताशेषवंध्योरुवृंदारकं चंदनाचर्चितोदारपीनांसकम् । इंदिराचंचलापांगनीराजितं मंदरोद्धारिवृत्तोद्बुजाभोगिनम् ॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥१॥ सृष्टिसंहारलीलाविलासाततं पुष्टषागुण्यसद्विग्रहोल्लासिनम् । दुष्टनिश्शेषसंहारकर्मोद्यतं हृष्टपुष्टानुशिष्टप्रजासंश्रयम् ॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥२॥ उन्नतप्रार्थिताशेषसंसाधकं सन्नतालौकिकानंददश्रीपदम् । भिन्नकर्माशयप्राणिसंप्रेरकं तन्न किं नेति विद्वत्सु मीमांसितम्॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥३॥ विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितीशेश्वरैश्चार्चितम्। अप्रतर्क्योरुसंविद्गुणं निर्मलं सप्रकाशाजरानंदरूपं परम् ॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥४॥ अत्ययो यस्य केनापि न क्वापि हि प्रत्ययो यद्गुणेषूत्तमानां परः। सत्यसंकल्प एको वरेण्यो वशी मत्यनूनैः सदा वेदवादोदितः ॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥५॥ पश्यतां दुःखसंताननिर्मूलनं दृश्यतां दृश्यतामित्यजेशार्चितम् । नश्यतां दूरगं सर्वदाऽप्यात्मगं वश्यतां स्वेच्छया सज्जनेष्वागतम् ॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥६॥ अग्रजं यः ससर्जाजमग्र्याकृतिं विग्रहो यस्य सर्वे गुणा एव हि । उग्र आद्योऽपि यस्यात्मजाग्र्यात्मजः सद्गृहीतः सदा यः परं दैवतम् ॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥७॥ अच्युतो यो गुणैर्नित्यमेवाखिलैः प्रच्युतोऽशेषदोषैः सदा पूर्तितः । उच्यते सर्ववेदोरुवादैरजः स्वर्चितो ब्रह्मरुद्रेंद्रपूर्वैः सदा ॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥८॥ धार्यते येन विश्वं सदाजादिकं वार्यतेऽशेषदुःखं निजध्यायिनाम् । पार्यते सर्वमन्यैर्न यत्पार्यते कार्यते चाखिलं सर्वभूतैः सदा ॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥९॥ सर्वपापानि यत्संस्मृतेः संक्षयं सर्वदा यांति भक्त्या विशुद्धात्मनाम् । शर्वगुर्वादिगीर्वाणसंस्थानदः कुर्वते कर्म यत्प्रीतये सज्जनाः ॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥१०॥ अक्षयं कर्म यस्मिन् परे स्वर्पितं प्रक्षयं यांति दुःखानि यन्नामतः । अक्षरो योऽजरः सर्वदैवामृतः कुक्षिगं यस्य विश्वं सदाऽजादिकम् ॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥११॥ नंदितीर्थोरुसन्नामिनो नंदिनः संदधानाः सदानंददेवे मतिम् । मंदहासारुणापांगदत्तोन्नतिं नंदिताशेषदेवादिवृंदं सदा ॥ प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनम् ॥१२॥ ॥ इति द्वादशस्तोत्रे अष्टमोऽध्यायः ॥