॥ अथ द्वादशस्तोत्रे सप्तमोऽध्यायः ॥


विश्वस्थितिप्रलयसर्गमहाविभूति
वृत्तिप्रकाशनियमावृतिबंधमोक्षाः ।
यस्या अपांगलवमात्रत ऊर्जिता सा
श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥१॥


ब्रह्मेशशक्ररविधर्मशशांकपूर्व-
गीर्वाणसंततिरियं यदपांगलेशम् ।
आश्रित्य विश्वविजयं विसृजत्यचिन्त्या
श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥२॥


धर्मार्थकामसुमतिप्रचयाद्यशेष-
सन्मंगलं विदधते यदपांगलेशम् ।
आश्रित्य तत्प्रणतसत्प्रणता अपीड्या
श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥३॥


षड्वर्गनिग्रहनिरस्तसमस्तदोषाः
ध्यायंति विष्णुमृषयो यदपांगलेशम् ।
आश्रित्य यानपि समेत्य न याति दुःखं
श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥४॥


शेषाहिवैरिशिवशक्रमनुप्रधान-
चित्रोरुकर्मरचनं यदपांगलेशम् ।
आश्रित्य विश्वमखिलं विदधाति धाता
श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥५॥


शक्रोग्रदीधितिहिमाकरसूर्यसूनु-
पूर्वं निहत्य निखिलं यदपांगलेशम् ।
आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः
श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥६॥


तत्पादपंकजमहासनतामवाप
शर्वादिवंद्यचरणो यदपांगलेशम् ।
आश्रित्य नागपतिरन्यसुरैर्दुरापां
श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥७॥


नागारिरुग्रबलपौरुष आप विष्णोः-
वाहत्वमुत्तमजवो यदपांगलेशम् ।
आश्रित्य शक्रमुखदेवगणैरचिंत्यं
श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥८॥


आनंदतीर्थमुनिसन्मुखपंकजोत्थं
साक्षाद्रमाहरिमनःप्रियमुत्तमार्थम् ।
भक्त्या पठत्यजितमात्मनि सन्निधाय
यः स्तोत्रमेतदभियाति तयोरभीष्टम् ॥९॥


॥ इति द्वादशस्तोत्रे सप्तमोऽध्यायः॥