द्वादशस्तोत्रम् सप्तमोऽध्यायः ॥ अथ द्वादशस्तोत्रे सप्तमोऽध्यायः ॥ विश्वस्थितिप्रलयसर्गमहाविभूति वृत्तिप्रकाशनियमावृतिबंधमोक्षाः । यस्या अपांगलवमात्रत ऊर्जिता सा श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥१॥ ब्रह्मेशशक्ररविधर्मशशांकपूर्व- गीर्वाणसंततिरियं यदपांगलेशम् । आश्रित्य विश्वविजयं विसृजत्यचिन्त्या श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥२॥ धर्मार्थकामसुमतिप्रचयाद्यशेष- सन्मंगलं विदधते यदपांगलेशम् । आश्रित्य तत्प्रणतसत्प्रणता अपीड्या श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥३॥ षड्वर्गनिग्रहनिरस्तसमस्तदोषाः ध्यायंति विष्णुमृषयो यदपांगलेशम् । आश्रित्य यानपि समेत्य न याति दुःखं श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥४॥ शेषाहिवैरिशिवशक्रमनुप्रधान- चित्रोरुकर्मरचनं यदपांगलेशम् । आश्रित्य विश्वमखिलं विदधाति धाता श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥५॥ शक्रोग्रदीधितिहिमाकरसूर्यसूनु- पूर्वं निहत्य निखिलं यदपांगलेशम् । आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥६॥ तत्पादपंकजमहासनतामवाप शर्वादिवंद्यचरणो यदपांगलेशम् । आश्रित्य नागपतिरन्यसुरैर्दुरापां श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥७॥ नागारिरुग्रबलपौरुष आप विष्णोः- वाहत्वमुत्तमजवो यदपांगलेशम् । आश्रित्य शक्रमुखदेवगणैरचिंत्यं श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥८॥ आनंदतीर्थमुनिसन्मुखपंकजोत्थं साक्षाद्रमाहरिमनःप्रियमुत्तमार्थम् । भक्त्या पठत्यजितमात्मनि सन्निधाय यः स्तोत्रमेतदभियाति तयोरभीष्टम् ॥९॥ ॥ इति द्वादशस्तोत्रे सप्तमोऽध्यायः॥