॥ अथ द्वादशस्तोत्रे चतुर्थोऽध्यायः ॥


निजपूर्णसुखामितबोधतनुः
परशक्तिरनंतगुणः परमः ।
अजरामरणः सकलार्तिहरः
कमलापतिरीड्यतमोऽवतु नः ॥१॥


यदसुप्तिगतोऽपि हरिः सुखवान्
सुखरूपिणमाहुरतो निगमाः ।
स्वमतिप्रभवं जगदस्य यतः
परबोधतनुं च ततः खपतिम् ॥२॥


बहुचित्रजगद्बहुधा करणात्
परशक्तिरनंतगुणः परमः ।
सुखरूपममुष्य पदं परमं
स्मरतस्तु भविष्यति तत्सततम् ॥३॥


स्मरणे हि परेशितुरस्य विभोः
मलिनानि मनांसि कुतः करणम् ।
विमलं हि पदं परमं स्वरतं
तरुणार्कसवर्णमजस्य हरेः ॥४॥


विमलैः श्रुतिशाणनिशाततमैः
सुमनोऽसिभिराशु निहत्य दृढम् ।
बलिनं निजवैरिणमात्मतमोऽ-
भिधमीशमनंतमुपास्व हरिम् ॥५॥


स हि विश्वसृजो विभुशंभुपुरं-
दरसूर्यमुखानपरानमरान् ।
सृजतीड्यतमोऽवति हंति निजं
पदमापयति प्रणतान् सुधिया ॥६॥


परमोऽपि रमेशितुरस्य समो
न हि कश्चिदभून्न भविष्यति च ।
क्वचिदद्यतनोऽपि न पूर्णसदा-
गणितेड्यगुणानुभवैकतनोः ॥७॥


इति देववरस्य हरेः स्तवनं
कृतवान् मुनिरुत्तममादरतः ।
सुखतीर्थपदाभिहितः पठतः
तदिदं भवति ध्रुवमुच्चसुखम् ॥८॥


॥ इति द्वादशस्तोत्रे चतुर्थोऽध्यायः ॥