द्वादशस्तोत्रम् चतुर्थोऽध्यायः ॥ अथ द्वादशस्तोत्रे चतुर्थोऽध्यायः ॥ निजपूर्णसुखामितबोधतनुः परशक्तिरनंतगुणः परमः । अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥१॥ यदसुप्तिगतोऽपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः । स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥२॥ बहुचित्रजगद्बहुधा करणात् परशक्तिरनंतगुणः परमः । सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥३॥ स्मरणे हि परेशितुरस्य विभोः मलिनानि मनांसि कुतः करणम् । विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥४॥ विमलैः श्रुतिशाणनिशाततमैः सुमनोऽसिभिराशु निहत्य दृढम् । बलिनं निजवैरिणमात्मतमोऽ- भिधमीशमनंतमुपास्व हरिम् ॥५॥ स हि विश्वसृजो विभुशंभुपुरं- दरसूर्यमुखानपरानमरान् । सृजतीड्यतमोऽवति हंति निजं पदमापयति प्रणतान् सुधिया ॥६॥ परमोऽपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च । क्वचिदद्यतनोऽपि न पूर्णसदा- गणितेड्यगुणानुभवैकतनोः ॥७॥ इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः । सुखतीर्थपदाभिहितः पठतः तदिदं भवति ध्रुवमुच्चसुखम् ॥८॥ ॥ इति द्वादशस्तोत्रे चतुर्थोऽध्यायः ॥