॥ अथ द्वादशस्तोत्रे तृतीयोऽध्यायः ॥
कुरु भुंक्ष्व च कर्म निजं नियतं
हरिपादविनम्रधिया सततम् ।
हरिरेव परो हरिरेव गुरुः
हरिरेव जगत्पितृमातृगतिः ॥१॥
न ततोऽस्त्यपरं जगतीड्यतमं
परमात्परतः पुरुषोत्तमतः ।
तदलं बहुलोकविचिंतनया
प्रवणं कुरु मानसमीशपदे ॥२॥
यततोऽपि हरेः पदसंस्मरणे
सकलं ह्यघमाशु लयं व्रजति ।
स्मरतस्तु विमुक्तिपदं परमं
स्पुटमेष्यति तत्किमपाक्रियते ॥३॥
शृणुतामलसत्यवचः परमं
शपथेरितमुच्छ्रितबाहुयुगम् ।
न हरेः परमो न हरेः सदृशः
परमः स तु सर्वचिदात्मगणात् ॥४॥
यदि नाम परो न भवेत् स हरिः
कथमस्य वशे जगदेतदभूत् ।
यदि नाम न तस्य वशे सकलं
कथमेव तु नित्यसुखं न भवेत् ॥५॥
न च कर्मविमामलकालगुण-
प्रभृतीशमचित्तनु तद्धि यतः ।
चिदचित्तनु सर्वमसौ तु हरिः
यमयेदिति वैदिकमस्ति वचः ॥६॥
व्यवहारभिदाऽपि गुरोर्जगतां
न तु चित्तगता स हि चोद्यपरम् ।
बहवः पुरुषाः पुरुषप्रवरो
हरिरित्यवदत् स्वयमेव हरिः ॥७॥
चतुराननपूर्वविमुक्तगणाः
हरिमेत्य तु पूर्ववदेव सदा ।
नियतोच्चविनीचतयैव निजां
स्थितिमापुरिति स्म परं वचनम् ॥८॥
आनंदतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा ।
कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः ॥९॥
॥ इति द्वादशस्तोत्रे तृतीयोऽध्यायः ॥