द्वादशस्तोत्रम् तृतीयोऽध्यायः ॥ अथ द्वादशस्तोत्रे तृतीयोऽध्यायः ॥ कुरु भुंक्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् । हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥१॥ न ततोऽस्त्यपरं जगतीड्यतमं परमात्परतः पुरुषोत्तमतः । तदलं बहुलोकविचिंतनया प्रवणं कुरु मानसमीशपदे ॥२॥ यततोऽपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति । स्मरतस्तु विमुक्तिपदं परमं स्पुटमेष्यति तत्किमपाक्रियते ॥३॥ शृणुतामलसत्यवचः परमं शपथेरितमुच्छ्रितबाहुयुगम् । न हरेः परमो न हरेः सदृशः परमः स तु सर्वचिदात्मगणात् ॥४॥ यदि नाम परो न भवेत् स हरिः कथमस्य वशे जगदेतदभूत् । यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥५॥ न च कर्मविमामलकालगुण- प्रभृतीशमचित्तनु तद्धि यतः । चिदचित्तनु सर्वमसौ तु हरिः यमयेदिति वैदिकमस्ति वचः ॥६॥ व्यवहारभिदाऽपि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम् । बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत् स्वयमेव हरिः ॥७॥ चतुराननपूर्वविमुक्तगणाः हरिमेत्य तु पूर्ववदेव सदा । नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥८॥ आनंदतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा । कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः ॥९॥ ॥ इति द्वादशस्तोत्रे तृतीयोऽध्यायः ॥