॥ अथ द्वादशस्तोत्रे द्वितीयोऽध्यायः ॥
सुजनोदधिसंवृद्धिपूर्णचंद्रो गुणार्णवः ।
अमंदानंदसांद्रो नः प्रीयतामिंदिरापतिः ॥१॥
रमाचकोरीविधवे दुष्टदर्पोदवह्नये ।
सत्पांथजनगेहाय नमो नारायणाय ते ॥२॥
चिदचिद्भेदमखिलं विधायाधाय भुंजते ।
अव्याकृतगृहस्थाय रमाप्रणयिने नमः ॥३॥
अमंदगुणसारोऽपि मंदहासेन वीक्षितः ।
नित्यमिंदिरयाऽऽनंदसांद्रो यो नौमि तं हरिम् ॥४॥
वशी वशे न कस्यापि योऽजितो विजिताखिलः ।
सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥५॥
अगुणाय गुणोद्रेकस्वरूपायादिकारिणे ।
विदारितारिसंघाय वासुदेवाय ते नमः ॥६॥
आदिदेवाय देवानां पतये सादितारये ।
अनाद्यज्ञानपाराय नमो वरवराय ते ॥७॥
अजाय जनयित्रेऽस्य विजिताखिलदानव ।
अजादिपूज्यपादाय नमस्ते गरुडध्वज ॥८॥
इंदिरामंदसांद्राग्र्यकटाक्षप्रेक्षितात्मने ।
अस्मदिष्टैककार्याय पूर्णाय हरये नमः ॥९॥
॥ इति द्वादशस्तोत्रे द्वितीयोऽध्यायः ॥