॥ अथ द्वादशस्तोत्रे एकादशोऽध्यायः ॥


उदीर्णमजरं दिव्यममृतस्यंद्यधीशितुः ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥१॥


सर्ववेदपदोद्गीतमिंदिराधारमुत्तमम् ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥२॥


सर्वदेवादिदेवस्य विदारितमहत्तमः ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥३॥


उदारमादरान्नित्यमनिंद्यं सुंदरीपतेः ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥४॥


इंदीवरोदरनिभं सुपूर्णं वादिमोहदम् ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥५॥


दातृसर्वामरैश्वर्यविमुक्त्यादेरहो वरम् ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥६॥


दूराद्द्दूरतरं यत्तु तदेवांतिकमंतिकात् ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥७॥


पूर्णसर्वगुणैकार्णमनाद्यंतं सुरेशितुः ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥८॥


आनंदतीर्थमुनिना हरेरानंदरूपिणः ।
आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥९॥


॥ इति द्वादशस्तोत्रे एकादशोऽध्यायः ॥