द्वादशस्तोत्रम् एकादशोsध्यायः ॥ अथ द्वादशस्तोत्रे एकादशोऽध्यायः ॥ उदीर्णमजरं दिव्यममृतस्यंद्यधीशितुः । आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥१॥ सर्ववेदपदोद्गीतमिंदिराधारमुत्तमम् । आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥२॥ सर्वदेवादिदेवस्य विदारितमहत्तमः । आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥३॥ उदारमादरान्नित्यमनिंद्यं सुंदरीपतेः । आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥४॥ इंदीवरोदरनिभं सुपूर्णं वादिमोहदम् । आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥५॥ दातृसर्वामरैश्वर्यविमुक्त्यादेरहो वरम् । आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥६॥ दूराद्द्दूरतरं यत्तु तदेवांतिकमंतिकात् । आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥७॥ पूर्णसर्वगुणैकार्णमनाद्यंतं सुरेशितुः । आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥८॥ आनंदतीर्थमुनिना हरेरानंदरूपिणः । आनंदस्य पदं वंदे ब्रह्मेंद्राद्यभिवंदितम् ॥९॥ ॥ इति द्वादशस्तोत्रे एकादशोऽध्यायः ॥