॥ अथ द्वादशस्तोत्रे प्रथमोऽध्यायः ॥


वंदे वंद्यं सदानंदं वासुदेवं निरंजनम् ।
इंदिरापतिमाद्यादिवरदेशवरप्रदम् ॥१॥


नमामि निखिलाधीशकिरीटाघृष्ठपीठवत् ।
हृत्तमःशमनेऽर्काभं श्रीपतेः पादपंकजम् ॥२॥


जांबूनदांबराधारं नितंबं चिंत्यमीशितुः ।
स्वर्णमंजीरसंवीतमारूढं जगदंबया ॥३॥


उदरं चिंत्यमीशस्य तनुत्वेऽप्यखिलंभरम् ।
वलित्रयांकितं नित्यमुपगूढं श्रियैकया ॥४॥


स्मरणीयमुरो विष्णोरिंदिरावासमीशितुः ।
अनंतमंतवदिव भुजयोरंतरं गतम् ॥५॥


शंखचक्रगदापद्मधराश्चिंत्या हरेर्भुजाः ।
पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोऽनिशम् ॥६॥


संततं चिंतयेत् कंठं भास्वत्कौस्तुभभासकम् ।
वैकुंठस्याखिला वेदा उद्गीर्यंतेऽनिशं यतः ॥७॥


स्मरेत यामिनीनाथसहस्रामितकांतिमत् ।
भवतापापनोदीड्यं श्रीपतेर्मुखपंकजम् ॥८॥


पूर्णानन्यसुखोद्भासि मंदस्मितमधीशितुः ।
गोविंदस्य सदा चिंत्यं नित्यानंदपदप्रदम् ॥९॥


स्मरामि भवसंतापहानिदामृतसागरम् ।
पूर्णानंदस्य रामस्य सानुरागावलोकनम् ॥१०॥


ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।
भ्रूभंगं पारमेष्ठ्यादिपददायि विमुक्तिदम् ॥११॥


संततं चिंतयेनंतमंतकाले विशेषतः ।
नैवोदापुर्गृणंतोंऽतं यद्गुणानामजादयः ॥१२॥


॥ इति द्वादशस्तोत्रे प्रथमोऽध्यायः ॥