द्वादशस्तोत्रम् प्रथमोऽध्यायः ॥ अथ द्वादशस्तोत्रे प्रथमोऽध्यायः ॥ वंदे वंद्यं सदानंदं वासुदेवं निरंजनम् । इंदिरापतिमाद्यादिवरदेशवरप्रदम् ॥१॥ नमामि निखिलाधीशकिरीटाघृष्ठपीठवत् । हृत्तमःशमनेऽर्काभं श्रीपतेः पादपंकजम् ॥२॥ जांबूनदांबराधारं नितंबं चिंत्यमीशितुः । स्वर्णमंजीरसंवीतमारूढं जगदंबया ॥३॥ उदरं चिंत्यमीशस्य तनुत्वेऽप्यखिलंभरम् । वलित्रयांकितं नित्यमुपगूढं श्रियैकया ॥४॥ स्मरणीयमुरो विष्णोरिंदिरावासमीशितुः । अनंतमंतवदिव भुजयोरंतरं गतम् ॥५॥ शंखचक्रगदापद्मधराश्चिंत्या हरेर्भुजाः । पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोऽनिशम् ॥६॥ संततं चिंतयेत् कंठं भास्वत्कौस्तुभभासकम् । वैकुंठस्याखिला वेदा उद्गीर्यंतेऽनिशं यतः ॥७॥ स्मरेत यामिनीनाथसहस्रामितकांतिमत् । भवतापापनोदीड्यं श्रीपतेर्मुखपंकजम् ॥८॥ पूर्णानन्यसुखोद्भासि मंदस्मितमधीशितुः । गोविंदस्य सदा चिंत्यं नित्यानंदपदप्रदम् ॥९॥ स्मरामि भवसंतापहानिदामृतसागरम् । पूर्णानंदस्य रामस्य सानुरागावलोकनम् ॥१०॥ ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् । भ्रूभंगं पारमेष्ठ्यादिपददायि विमुक्तिदम् ॥११॥ संततं चिंतयेनंतमंतकाले विशेषतः । नैवोदापुर्गृणंतोंऽतं यद्गुणानामजादयः ॥१२॥ ॥ इति द्वादशस्तोत्रे प्रथमोऽध्यायः ॥