दशावतारहरिगाथा अथ दशावतारहरिगाथा प्रलयोदन्वदुदीर्णजलविहारानिमिषांगम् | कमलाकांतमखंडितविभवाब्धिं हरिमीडे || १|| चरमांगोद्धृतमंदरतटिनं कूर्मशरीरम् | कमलाकांतमखंडितविभवाब्धिं हरिमीडे|| २|| सितदंष्ट्रोद्धृतकाश्यपतनयं सूकरकूपम् | कमलाकांतमखंडितविभवाब्धिं हरिमीडे || ३|| निशितप्राग्र्यनखेन जितसुरारिं नरसिंहम् | कमलाकांतमखंडितविभवाब्धिं हरिमीडे|| ४|| त्रिपदव्याप्तचतुर्दशभुवनं वामनरूपम् | कमलाकांतमखंडितविभवाब्धिं हरिमीडे|| ५|| क्षपितक्षत्रियवंशनगधरं भार्गवरामम् | कमलाकांतमखंडितविभवाब्धिं हरिमीडे|| ६|| दयिताचोरनिबर्हणनिपुणं राघवरामम् | कमलाकांतमखंडितविभवाब्धिं हरिमीडे || ७|| मुरलीनिस्वनमोहितवनितं यादवकृष्णम् | कमलाकांतमखंडितविभवाब्धिं हरिमीडे|| ८|| पटुचाटीकृतनिस्फुटजनतं श्रीघनसंज्ञम् | कमलाकांतमखंडितविभवाब्धिं हरिमीडे || ९|| परिनिर्मूलितदुष्टजनकुलं विष्णुयशोजम् | कमलाकांतमखंडितविभवाब्धिं हरिमीडे || १०|| अकृतेमां विजयध्वजवरतीर्थो हरिगाथाम्| अयते प्रीतिमलं सपदि यया श्रीरमणोऽयम्|| ११|| || इति श्रीमद्विजयध्वजतीर्थयतिकृता श्रीदशवतारहरिगाथा ||