अथ दशावतारहरिगाथा
प्रलयोदन्वदुदीर्णजलविहारानिमिषांगम् |


कमलाकांतमखंडितविभवाब्धिं हरिमीडे || १||


चरमांगोद्धृतमंदरतटिनं कूर्मशरीरम् |


कमलाकांतमखंडितविभवाब्धिं हरिमीडे|| २||


सितदंष्ट्रोद्धृतकाश्यपतनयं सूकरकूपम् |


कमलाकांतमखंडितविभवाब्धिं हरिमीडे || ३||


निशितप्राग्र्यनखेन जितसुरारिं नरसिंहम् |


कमलाकांतमखंडितविभवाब्धिं हरिमीडे|| ४||


त्रिपदव्याप्तचतुर्दशभुवनं वामनरूपम् |


कमलाकांतमखंडितविभवाब्धिं हरिमीडे|| ५||


क्षपितक्षत्रियवंशनगधरं भार्गवरामम् |


कमलाकांतमखंडितविभवाब्धिं हरिमीडे|| ६||


दयिताचोरनिबर्हणनिपुणं राघवरामम् |


कमलाकांतमखंडितविभवाब्धिं हरिमीडे || ७||


मुरलीनिस्वनमोहितवनितं यादवकृष्णम् |


कमलाकांतमखंडितविभवाब्धिं हरिमीडे|| ८||


पटुचाटीकृतनिस्फुटजनतं श्रीघनसंज्ञम् |


कमलाकांतमखंडितविभवाब्धिं हरिमीडे || ९||


परिनिर्मूलितदुष्टजनकुलं विष्णुयशोजम् |


कमलाकांतमखंडितविभवाब्धिं हरिमीडे || १०||


अकृतेमां विजयध्वजवरतीर्थो हरिगाथाम्|


अयते प्रीतिमलं सपदि यया श्रीरमणोऽयम्|| ११||


|| इति श्रीमद्विजयध्वजतीर्थयतिकृता श्रीदशवतारहरिगाथा ||