चरमश्लोकाः ।। अथ श्री गुरुपरंपरा चरमश्लोकाः ।। ब्रह्मांता गुरवः साक्षादिष्टं दैवं श्रियः पतिः । आचार्याः श्रीमदाचार्याः संतु मे जन्मजन्मनि ॥१॥ श्रीहंसं परमात्मानं विरिंचिं सनकादिकान् । दूर्वाससो ज्ञाननिधीन् वींद्रवाहनतीर्थकान् ॥२॥ कैवल्यतीर्थान् ज्ञानेशान् परतीर्थान् नमाम्यहम् । सत्यप्रज्ञान् प्राज्ञतीर्थानन्यान् तद्वंशजानपि ॥३॥ पुरैव कृष्णासिद्धान्नभुक्त्या शोधितमानसम् । अच्युतप्रेक्षतीर्थंच मध्वार्याणां गुरुं भजे ॥४॥ लसतु श्रीमदानंदतीर्थेंदुर्नो हृदंबरे । यद्वचश्चंद्रिकास्वांतसंतापं विनिकृंतति ॥५॥ पूर्णप्रज्ञकृतं भाष्यं आदौ तद्भावपूर्वकम् । यो व्याकरोन्नमस्तस्मै पद्मनाभाख्ययोगिने ॥६॥ ससीता मूलरामार्चा कोशे गजपतेः स्थिता । येनानीता नमस्तस्मै श्रीमन्नृहरिभिक्षवे ॥७॥ साधिताखिलसत्तत्त्वं बाधिताखिलदुर्मतम् । बोधिताखिलसन्मार्गं माधवाख्ययतिं भजे ॥८॥ यो विद्यारण्यविपिनं तत्त्वमस्यसिनाऽच्छिनत् । श्रीमदक्षोभ्यतीर्थार्यहंसेनं तं नमाम्यहम् ॥९॥ यस्य वाक् कामधेनुर्नः कामितार्थान् प्रयच्छति । सेवे तं जययोगींद्रं कामबाणच्छिदं सदा ॥१०॥ माद्यदद्वैत्यंधकारप्रद्योतनमहर्निशम् । विद्याधिराजं सुगुरुं ध्यायामि करुणाकरम् ॥११॥ वींद्रारूढपदासक्तं राजेंद्रमुनिसेवितम् । श्रीकवींद्रमुनिं वंदे भजतां चंद्रसन्निभम् ॥१२॥ वासुदेवपदद्वंद्ववारिजासक्तमानसम् । पदव्याख्यानकुशलं वागीशयतिमाश्रये ॥१३॥ द्युमण्यभिजनाब्जेंदू रामव्यासपदार्चकः । रामचंद्रगुरुर्भूयात् कामितार्थप्रदायकः ॥१४॥ यद्भक्त्या मूलरामस्य पेटिका त्यक्तभूमिका । विद्यानिधिर्धियं दद्यात् अष्टषष्ट्यब्दपूजकः ॥१५॥ रघुनाथगुरुं नौमि विद्यानिधिकरोद्भवम् । कूर्मो वरुणगंगे च यस्य प्रत्यक्षतां गताः ॥१६॥ महाप्रवाहिनी भीमा यस्य मार्गमदान्मुदा । रघुवर्यो मुदं दद्यात् कामितार्थप्रदायकः ॥१७॥ भावबोधकृतं सेवे रघूत्तममहागुरुम् । यच्छिष्यशिष्यशिष्याद्याः टिप्पण्याचार्यसंज्ञिताः ॥१८॥ न दग्धं यस्य कौपीनं अग्नौ दत्तमपि स्फुटम् । वेदव्यासगुरुं नौमि श्रीवेदेशनमस्कृतम् ॥१९॥ श्रीमत्सुधाद्भुतांबोधिविक्रीडनविचक्षणान् । वाक्यार्थचंद्रिकाकारान् विद्याधीशगुरून् भजे ॥२०॥ विद्याधीशाब्धिसंभूतो विद्वत्कुमुदबांधवः । वेदनिध्याख्यचंद्रोऽयं कामितार्थान् प्रयच्छतु ॥२१॥ वेदनिध्यालवालोत्थः विदुषां चिंतितप्रदः । सत्यव्रताख्यकल्पद्रुः भूयादिष्टार्थसिद्धये ॥२२॥ अनधीत्य महाभाष्यं व्याख्यातं यदनुग्रहात् । वंदे तं विधिना सत्यनिधिं सज्ज्ञानसिद्धये ॥२३॥ सत्यनाथगुरुः पातु यो धीरो नवचंद्रिकाम् । नवामृतगदातीर्थतांडवानि व्यचीक्लृपत् ॥२४॥ सत्यनाथाब्धिसंभूतः सद्गोगणविजृंभितः । सत्याभिनवतीर्थेंदुः संतापान् हंतु संततम् । २५॥ सत्याभिनवदुग्धाब्धेः संजातः सकलेष्टदः । श्रीसत्यपूर्णतीर्थेंदुः संतापान् हंतु संततम् ॥२६॥ सत्यपूर्णांबुधेर्जातो विद्वज्जनविजृंभितः । दनीध्वंसीतु नस्तापं श्रीसत्यविजयोडुपः ॥२७॥ श्रीसत्यविजयांबोधेः जातं सत्यप्रियामृतम् । जरामृती जंघनीतु विबुधानां मुदे सदा ॥२८॥ नैवेद्यगविषं रामे वीक्ष्य तद्भुक्तिभाक् गुरुः । योऽदर्शयद्रविं रात्रौ सत्यबोधोऽस्तु मे मुदे ॥२९॥ विष्णोः पदश्रित् गोव्रातैः स्वांतध्वांतनिवारकः । श्रीसत्यसंधसूर्योऽयं भासतां नो हृदंबरे ॥३०॥ श्रीसत्यसंधसिंधूत्थः श्रीसत्यवरचंद्रमाः । प्रार्थितार्थप्रदो नित्यं भूयः स्यात् इष्टसिद्धये ॥३१॥ श्रीसत्यवरदुग्धाब्धेः उत्थिता जगतीतले । सुधा श्रीसत्यधर्माख्या पावयेत् स्मरतस्सतः ॥३२॥ सत्यधर्माब्धिसंभूतः चिंतामणिविजृंभितः । सत्यसंकल्पकल्पद्रुः कल्पयेत् कामधुक् मम ॥३३॥ सत्यसंकल्पवार्ध्युत्थः सत्यसंतुष्टचंद्रमाः । प्रार्थिताशेषदाता च भक्तवृंदस्य नित्यदा ॥३४॥ सत्यसंतुष्टदुग्धाब्धेः जातः सत्यपरायणः । चिंतामणिः सदा भूयात् सतां चिंतितसिद्धये ॥३५॥ सत्परायणदुग्धाब्धेः संजाता कीर्तिकामदा । कामधेनुः सत्यकामनाम्नी भूयात् सतां मुदे ॥३६॥ सत्यकामार्णवोद्भूतः श्रीमत्सत्येष्टसद्गुरुः । सतां चिंतामणिरिव चिंतितार्थप्रदो भुवि ॥३७॥ सत्येष्टार्यसरिन्नाथादुद्भूतोऽद्भुतदर्शनः । नाशयेत् हृदयध्वांतं सत्पराक्रमकौस्तुभः ॥३८॥ सत्पराक्रमदुग्धाब्धेः संजातः कीर्तिचंद्रिकः । संतापं हरतु श्रीमान् सत्यवीरेंदुरंजसा ॥३९॥ सत्यवीरालवालोत्थो विदुषां चिंतितप्रदः । सत्यधीराख्यकल्पद्रुः भूयादिष्टार्थसिद्धये ॥४०॥ सत्यधीरकराब्जोत्थो ज्ञानवैराग्यसागरः । सत्यज्ञानाख्यतरणिः स्वांतध्वांतं निकृंततु ॥४१॥ आसेतोरातुषाराद्रेः यो दिशो जितवान् मुहुः । सत्यध्यानगुरुः पातु यतींद्रैरपि पूजितः ॥४२॥ प्रावोचद्योऽधिकं न्यायसुधावाक्यार्थचंद्रिकाम् । सत्यप्रज्ञगुरुर्दद्यात् प्रज्ञां वैदांतिकीम् सदा ॥४३॥ वेंकटेशाद्रिमारभ्य सेतुं तोताद्रिपूर्वकान् । गत्वा दिग्विजयी पातु सत्याभिज्ञगुरूत्तमः ॥४४॥ सत्याभिज्ञकराब्जोत्थान् पंचाशद्वर्षपूजकान् । सत्यप्रमोदतीर्थार्यान् नौमि न्यायसुधारतान् ॥४५॥ ।। इति श्री गुरुपरंपरा चरमश्लोकाः ।।