ब्रह्मपारस्तवः अथ वराहपुराणोक्तः ब्रह्मपारस्तवः प्रचेतसः ऊचुः ब्रह्मपारं मुने श्रोतुं इच्छामः परमं स्तवं | जपता कंडुना देवो येनाराध्यत केशवः || १|| सोम उवाच पारः परं विष्णुरपारपारः परः पराणामपि पारपारः | स ब्रह्मपारः परपारभूतः परः परेभ्यः परमार्थरूपि || २|| स कारणं कारणतस्तसोपि तस्यापि हेतुः परहेतुहेतुः | कार्येषु चैवं स हि कर्मकर्तृ- रूपैरशेषैरवतीह सर्वम् || ३|| ब्रह्मप्रभुब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतोऽसौ | ब्रह्माव्ययं नित्यमजं स विष्णु- रपक्षयाद्यैरखिलैरसंगी || ४|| ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः | तथा रागादयो दोषाः प्रयांतु प्रशमं मम || ५|| एवं वै ब्रह्मपराख्यं संस्तवं परमं जपन् | अवाप परमां सिद्धिं स समराध्य केशवम् || ६|| || इति वराहपुराणोक्तः ब्रह्मपारस्तवः ||