अथ वराहपुराणोक्तः ब्रह्मपारस्तवः
प्रचेतसः ऊचुः
ब्रह्मपारं मुने श्रोतुं
इच्छामः परमं स्तवं |


जपता कंडुना देवो
येनाराध्यत केशवः || १||


सोम उवाच
पारः परं विष्णुरपारपारः
परः पराणामपि पारपारः |


स ब्रह्मपारः परपारभूतः
परः परेभ्यः परमार्थरूपि || २||


स कारणं कारणतस्तसोपि
तस्यापि हेतुः परहेतुहेतुः |


कार्येषु चैवं स हि कर्मकर्तृ-
रूपैरशेषैरवतीह सर्वम् || ३||


ब्रह्मप्रभुब्रह्म स सर्वभूतो
ब्रह्म प्रजानां पतिरच्युतोऽसौ |


ब्रह्माव्ययं नित्यमजं स विष्णु-
रपक्षयाद्यैरखिलैरसंगी || ४||


ब्रह्माक्षरमजं नित्यं
यथासौ पुरुषोत्तमः |


तथा रागादयो दोषाः
प्रयांतु प्रशमं मम || ५||


एवं वै ब्रह्मपराख्यं
संस्तवं परमं जपन् |


अवाप परमां सिद्धिं
स समराध्य केशवम् || ६||


|| इति वराहपुराणोक्तः ब्रह्मपारस्तवः ||