ब्रह्मसूत्राणुभाष्यम् ॥ अथ ब्रह्मसूत्राणुभाष्यम् चतुर्थोऽध्यायः ॥ विष्णुर्ब्रह्म तथा दातेत्येवं नित्यमुपासनम् । कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम् ॥१॥ प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परिक्षयः । अनिष्टस्योभयस्यापि सर्वस्यान्यस्य भोगतः ॥२॥ उत्तरेषूत्तरेष्वेवं यावद्वायुं विमुक्तिगाः । प्रविश्य भुंजते भोगांस्तदंतर्बहिरेव वा ॥३॥ वायुर्विष्णुं प्रविश्यैव भोगश्चैवोत्तरोत्तरम् । उत्क्रम्य मानुषा मुक्तिं यांति देहक्षयात् सुराः ॥४॥ अर्चिरादिपथा वायुं प्राप्य तेन जनार्दनम् । यांत्युत्तमा नरोच्चाद्या ब्रह्मलोकात् सहामुना ॥५॥ यथासंकल्पभोगाश्च चिदानंदशरीरिणः । जगत्सृष्ट्यादिविषये महासामर्थ्यमप्यृते ॥६॥ यथेष्टशक्तिमंतश्च विना स्वाभाविकोत्तमान् । अनन्यवशगाश्चैव वृद्धिह्रासविवर्जिताः । दुःखादिरहिता नित्यं मोदंतेऽविरतं सुखम् ॥७॥ पूर्णप्रज्ञेन मुनिना सर्वशास्त्रार्थसंग्रहः । कृतोऽयं प्रीयतां तेन परमात्मा रमापतिः ॥८॥ नमो नमोशेषदोषदूरपूर्णगुणात्मने । विरिंचिशर्वपूर्वेड्य वंद्याय श्रीवराय ते ॥९॥ ॥ इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचिते ब्रह्मसूत्राणुभाष्ये चतुर्थोऽध्यायः ॥