॥ अथ ब्रह्मसूत्राणुभाष्यम् चतुर्थोऽध्यायः ॥


विष्णुर्ब्रह्म तथा दातेत्येवं नित्यमुपासनम् ।
कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम् ॥१॥


प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परिक्षयः ।
अनिष्टस्योभयस्यापि सर्वस्यान्यस्य भोगतः ॥२॥


उत्तरेषूत्तरेष्वेवं यावद्वायुं विमुक्तिगाः ।
प्रविश्य भुंजते भोगांस्तदंतर्बहिरेव वा ॥३॥


वायुर्विष्णुं प्रविश्यैव भोगश्चैवोत्तरोत्तरम् ।
उत्क्रम्य मानुषा मुक्तिं यांति देहक्षयात् सुराः ॥४॥


अर्चिरादिपथा वायुं प्राप्य तेन जनार्दनम् ।
यांत्युत्तमा नरोच्चाद्या ब्रह्मलोकात् सहामुना ॥५॥


यथासंकल्पभोगाश्च चिदानंदशरीरिणः ।
जगत्सृष्ट्यादिविषये महासामर्थ्यमप्यृते ॥६॥


यथेष्टशक्तिमंतश्च विना स्वाभाविकोत्तमान् ।
अनन्यवशगाश्चैव वृद्धिह्रासविवर्जिताः ।
दुःखादिरहिता नित्यं मोदंतेऽविरतं सुखम् ॥७॥


पूर्णप्रज्ञेन मुनिना सर्वशास्त्रार्थसंग्रहः ।
कृतोऽयं प्रीयतां तेन परमात्मा रमापतिः ॥८॥


नमो नमोशेषदोषदूरपूर्णगुणात्मने ।
विरिंचिशर्वपूर्वेड्य वंद्याय श्रीवराय ते ॥९॥


॥ इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचिते ब्रह्मसूत्राणुभाष्ये चतुर्थोऽध्यायः ॥