ब्रह्मसूत्राणुभाष्यम् ॥ अथ ब्रह्मसूत्राणुभाष्यम् तृतीयोऽध्यायः ॥ शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा । मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम् ॥१॥ याति तस्माद्विरक्तः सन् ज्ञानमेव समाश्रयेत् । सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान् ॥२॥ सर्वदेशेषु कालेषु स एकः परमेश्वरः । तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ॥३॥ सच्चिदानंद आत्मेति मानुषैस्तु सुरेश्वरैः । यथाक्रमं बहुगुणैः ब्रह्मणा त्वखिलैर्गुणैः ॥४॥ उपास्यः सर्ववेदैश्च सर्वैरपि यथाबलम् । ज्ञेयो विष्णुर्विशेषस्तु ज्ञाने स्यादुत्तरोत्तरम् ॥५॥ सर्वेपि पुरुषार्थाः स्युर्ज्ञानादेव न संशयः । न लिप्यते ज्ञानवांश्च सर्वदोषैरपि क्वचित् ॥६॥ गुणदोषैः सुखस्यापि वृद्धिह्रासौ विमुक्तिगौ । नृणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रमम् ॥७॥ ॥ इति ब्रह्मसूत्राणुभाष्ये तृतीयोऽध्यायः ॥