॥ अथ ब्रह्मसूत्राणुभाष्यम् तृतीयोऽध्यायः ॥


शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा ।
मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम् ॥१॥


याति तस्माद्विरक्तः सन् ज्ञानमेव समाश्रयेत् ।
सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान् ॥२॥


सर्वदेशेषु कालेषु स एकः परमेश्वरः ।
तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ॥३॥


सच्चिदानंद आत्मेति मानुषैस्तु सुरेश्वरैः ।
यथाक्रमं बहुगुणैः ब्रह्मणा त्वखिलैर्गुणैः ॥४॥


उपास्यः सर्ववेदैश्च सर्वैरपि यथाबलम् ।
ज्ञेयो विष्णुर्विशेषस्तु ज्ञाने स्यादुत्तरोत्तरम् ॥५॥


सर्वेपि पुरुषार्थाः स्युर्ज्ञानादेव न संशयः ।
न लिप्यते ज्ञानवांश्च सर्वदोषैरपि क्वचित् ॥६॥


गुणदोषैः सुखस्यापि वृद्धिह्रासौ विमुक्तिगौ ।
नृणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रमम् ॥७॥


॥ इति ब्रह्मसूत्राणुभाष्ये तृतीयोऽध्यायः ॥