ब्रह्मसूत्राणुभाष्यम् ॥ अथ ब्रह्मसूत्राणुभाष्यम् द्वितीयोऽध्यायः ॥ श्रौतस्मृतिविरुद्धत्वात् स्मृतयो न गुणान् हरेः । निषेद्धुं शक्नुयुर्वेदा नित्यत्वान्मानमुत्तमम् ॥१॥ देवतावचनादापो वदंतीत्यादिकं वचः । नायुक्तवाद्यसन्नैव कारणं दृश्यते क्वचित् ॥२॥ असज्जीवप्रधानादिशब्दा ब्रह्मैव नापरम् । वदंति कारणत्वेन क्वापि पूर्णगुणो हरिः ॥३॥ स्वातंत्र्यात् सर्वकर्तृत्वान्नायुक्तं तद्वदेच्छ्रुतिः । भ्रांतिमूलतया सर्वसमयानामयुक्तितः ॥४॥ न तद्विरोधाद्वचनं वैदिकं शंक्यतां व्रजेत् । आकाशादिसमस्तं च तज्जं तेनैव लीयते ॥५॥ सोऽनुत्पत्तिलयः कर्ता जीवस्तद्वशगः सदा । तदाभासो हरिः सर्वरूपेष्वपि समः सदा ॥६॥ मुख्यप्राणश्चेंद्रियाणि देहश्चैव तदुद्भवः । मुख्यप्राणवशे सर्वं स विष्णोर्वशगः सदा ॥७॥ सर्वदोषोज्झितस्तस्माद् भगवान् पुरुषोत्तमः । उक्ता गुणाश्चाविरुद्धास्तस्य वेदेन सर्वशः ॥८॥ ॥ इति ब्रह्मसूत्राणुभाष्ये द्वितीयोऽध्यायः ॥