॥ अथ ब्रह्मसूत्राणुभाष्यम् द्वितीयोऽध्यायः ॥
श्रौतस्मृतिविरुद्धत्वात् स्मृतयो न गुणान् हरेः ।
निषेद्धुं शक्नुयुर्वेदा नित्यत्वान्मानमुत्तमम् ॥१॥
देवतावचनादापो वदंतीत्यादिकं वचः ।
नायुक्तवाद्यसन्नैव कारणं दृश्यते क्वचित् ॥२॥
असज्जीवप्रधानादिशब्दा ब्रह्मैव नापरम् ।
वदंति कारणत्वेन क्वापि पूर्णगुणो हरिः ॥३॥
स्वातंत्र्यात् सर्वकर्तृत्वान्नायुक्तं तद्वदेच्छ्रुतिः ।
भ्रांतिमूलतया सर्वसमयानामयुक्तितः ॥४॥
न तद्विरोधाद्वचनं वैदिकं शंक्यतां व्रजेत् ।
आकाशादिसमस्तं च तज्जं तेनैव लीयते ॥५॥
सोऽनुत्पत्तिलयः कर्ता जीवस्तद्वशगः सदा ।
तदाभासो हरिः सर्वरूपेष्वपि समः सदा ॥६॥
मुख्यप्राणश्चेंद्रियाणि देहश्चैव तदुद्भवः ।
मुख्यप्राणवशे सर्वं स विष्णोर्वशगः सदा ॥७॥
सर्वदोषोज्झितस्तस्माद् भगवान् पुरुषोत्तमः ।
उक्ता गुणाश्चाविरुद्धास्तस्य वेदेन सर्वशः ॥८॥
॥ इति ब्रह्मसूत्राणुभाष्ये द्वितीयोऽध्यायः ॥