ब्रह्मसूत्राणुभाष्यम् ॥ अथ ब्रह्मसूत्राणुभाष्यम् प्रथमोऽध्यायः ॥ नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम् । ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥१॥ विष्णुरेव विजिज्ञास्यः सर्वकर्तागमोदितः । समन्वयादीक्षतेश्च पूर्णानंदोंतरः खवत् ॥२॥ प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु । उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः ॥३॥ सर्वगोऽत्ता नियंता च दृश्यत्वाद्युज्झितः सदा । विश्वजीवांतरत्वाद्यैर्लिंगैः सर्वैर्युतः स हि ॥४॥ सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः । सूर्यादिभासकः प्राणप्रेरको दैवतैरपि ॥५॥ ज्ञेयो न वेदैः शूद्राद्यैः कंपकोऽन्यश्च जीवतः । पतित्वादिगुणैर्युक्तस्तदन्यत्र च वाचकैः ॥६॥ मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः । अव्यक्तः कर्मवाक्यैश्च वाच्य एकोऽमितात्मकः ॥७॥ अवांतरं कारणं च प्रकृतिः शून्यमेव च । इत्याद्यन्यत्रनियतैरपि मुख्यतयोदितः॥ शब्दैरतोऽनंतगुणो यच्छब्दा योगवृत्तयः ॥८॥ ॥ इति ब्रह्मसूत्राणुभाष्ये प्रथमोऽध्यायः ॥