॥ अथ ब्रह्मसूत्राणुभाष्यम् प्रथमोऽध्यायः ॥


नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम् ।
ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥१॥


विष्णुरेव विजिज्ञास्यः सर्वकर्तागमोदितः ।
समन्वयादीक्षतेश्च पूर्णानंदोंतरः खवत् ॥२॥


प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु ।
उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः ॥३॥


सर्वगोऽत्ता नियंता च दृश्यत्वाद्युज्झितः सदा ।
विश्वजीवांतरत्वाद्यैर्लिंगैः सर्वैर्युतः स हि ॥४॥


सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः ।
सूर्यादिभासकः प्राणप्रेरको दैवतैरपि ॥५॥


ज्ञेयो न वेदैः शूद्राद्यैः कंपकोऽन्यश्च जीवतः ।
पतित्वादिगुणैर्युक्तस्तदन्यत्र च वाचकैः ॥६॥


मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः ।
अव्यक्तः कर्मवाक्यैश्च वाच्य एकोऽमितात्मकः ॥७॥


अवांतरं कारणं च प्रकृतिः शून्यमेव च ।
इत्याद्यन्यत्रनियतैरपि मुख्यतयोदितः॥


शब्दैरतोऽनंतगुणो यच्छब्दा योगवृत्तयः ॥८॥


॥ इति ब्रह्मसूत्राणुभाष्ये प्रथमोऽध्यायः ॥