श्री भूवराहाष्टोत्तरस्तवः अथ श्री भूवराहाष्टोत्तरस्तवः श्वेतं सुदर्शनदरांकितबाहुयुग्मं | दंष्ट्राकरालवदनं धरया समेतम् || १|| ब्रह्मादिभिः सुरगणैः परिसेव्यमाणं | ध्यायेद्वराहवपुषं निगमैकवेद्यम् || २|| श्रीवराहो महीनाथः पूर्णानंदो जगत्पतिः | निर्गुणो निष्कलोऽनंतो दंडकांतकृदव्ययः || ३|| हिरण्याक्षांतकृद्देवः पूर्णषाड्गुण्यविग्रहः | लयोदधिविहारी च सर्वप्राणिहितेरतः || ४|| अनंतरूपोऽनंतश्रीर्जितमन्युर्भयापहः | वेदांतवेद्यो वेदि च वेदगर्भः सनातनः || ५|| सहस्राक्षः पुण्यगंधः कल्पकृत् क्षितिभृद्धरिः | पद्मनाभः सुराध्यक्षो हेमांगो दक्षिणामुखः || ६|| महाकोलो महाबाहुः सर्वदेवनमस्क्रतः | हृषीकेशः प्रसन्नात्मा सर्वभक्तभयापहः || ७|| यज्ञकृद्यज्ञभृत् साक्षी यज्ञांगो यज्ञवाहनः | हव्यभुग् हव्यदेहश्च सदाऽव्यक्तः कृपाकरः || ८|| देवहूतिर्गुरुः कांतो धर्मगुह्यो वृषाकपिः | स्रवत्तुंडो वक्रतुंडो नीलकेशो महाबलः || ९|| पूतात्मा वेदनेता च वेदहर्तृशिरोहरः | वेदांतविद्वेदगुह्यः सर्ववेदप्रवर्तकः || १०|| गंभीराक्षस्त्रिधामा च गंभीरात्माऽमरेश्वरः | आनंदवनगो दिव्यो ब्रह्मनासासमुद्भवः || ११|| सिंधुतीरनिवासी च क्षेमकृत् सात्वतां पतिः | इंद्रत्राता जगत्त्राता चेंद्रदोर्दंडगर्वहा || १२|| भक्तवश्यः सदाव्यक्तो निजानंदो रमापतिः | श्रुतिप्रियः शुभांगश्च पुण्यश्रवणकीर्तनः || १३|| सत्यकृत् सत्यसंकल्पः सत्यवाक् सत्यविक्रमः | सत्येनिगूढः सत्यात्मा कालातीतो गुणातीगः || १४|| परंज्योतिः परंधाम परमः पुरुषः परः | कल्याणकृत् कविः कर्ता कर्मसाक्षी जितेंद्रियः || १५|| कर्मकृत् कर्मकांडस्य संप्रदायप्रवर्तकः | सर्वांतगः सर्वगश्च सर्वदः सर्वभक्षकः || १६|| सर्वलोकपतिः श्रीमान् श्रीमुष्णेशः शुभेक्षणः | सर्वसाक्षी सर्वदेवप्रियः सर्वेश्वरो हरिः || १७|| अष्टोत्तरशतं पुण्यं वराहस्य महात्मनः | सर्ववेदाधिकं सर्वकामदं सततं जपेत् || १८|| सततं प्रातरुत्थाय सम्यगाचम्य वारिणा | कृतासनो जितक्रोधः पश्चान्मंत्रमुदीरयेत् || १९|| ब्राह्मणो ब्रह्मविद्यां च क्षत्रियो राज्यमाप्नुयात् | भुक्तिं मुक्तिं च लभते श्रीवराहप्रसादतः || २०|| || इति श्रीवराहपुराणे श्रीमुष्णमाहात्म्ये धरणीवराहसंवादे श्रीभूवराहाष्टोत्तरस्तवः ||