अथ भागीरथीगद्यं
श्रीशुक उवाच
तत्र भगवतः साक्षाद् यज्ञलिंगस्य विष्णोर्विक्रमतो |
वामपा-दांगुष्ठनखनिर्भिन्नोर्ध्वांडकटाहविवरेण |
अंतःप्रविष्टा या बाह्यजलधारा |
तच्चरणपंकजावनेजनारुणकिंजल्कोपरंजित-अखिलजगदघमलापहा |
उपस्पर्शनामला साक्षात् भगवत्पदीत्य-नुपलक्षितवचोभिरभिधीयमाना|
अतिमहता कालेन युग-सहस्त्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ||


यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतः|
अस्मत्कुल-देवताचरणारविंदोदकं इति|
यां अनुसवनमुत्कृष्यमाण-भगवद्भक्तियोगेन दृढं क्लिद्यमानांतर्हृदय|
औत्कंठ्यविवशामीलितलोचनयुगलकुड्मलविगलितामलबाष्पकलया|
अभिव्यज्यमान-रोमपुलककुलक|
अधुनापि परमादरेण शिरसा बिभर्ति ||1||


तत्र सप्तऋषयस्तत्प्रभावज्ञा ननु (इयं नु) तपस आत्यंतिकी सिद्धिरेतावतीति |
भगवति सर्वात्मनि वासुदेवे अनवरतभक्तियोग-लाभेनैव |
उपेक्षितान्यार्थात्मगतयो|
मुक्तिमिवागतां मुमुक्षवः सबहुमानमेनामद्यापि जटाजूटैरुद्वहंति ||2||


ततः अनेकसहस्रकोटिविमानानीकसंकुलदेवयानेन अवतरंती|
इंदुमंडलमाप्लाव्य ब्रह्मसदने निपतति|
तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्यंदती|
नदनदीपतिमेवाभिनिविशते|
‘सीता अलकनंदा चक्षुः भद्रा’ इति ||3||


सीता तु ब्रह्मसदनात् केसराद्रिशिखरेभ्योऽधोऽधःपतंती<
गंधमादनमूर्ध्नि पतित्वांतरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रं प्रविशति|
एवं माल्यवच्छिखरान्निष्पतंती अनुपरतवेगा|
केतुमालमभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति |
भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखरात् गिरिशिखरमतिहाय|
शृंगवतः शृंगादभिस्यंदमाना उत्तरांस्तु कुरून् अतिक्रम्य |
उदीच्यां दिशि लवणार्णवं प्रविशति |
तथैवालकनंदा दक्षिणेन तु ब्रह्मसदनाद् बहूनि गिरिकूटान्यतिक्रम्य|
हेमकूटहिमकूटानि अतितररभसरंहसा लुठंती|
भारतमेव वर्षं दक्षिणस्यां दिशि जलधिं प्रविशति || 4||


|| इति भागवते पंचमस्कंधे भागीरथीगद्यं ||